Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 475
________________ ॐeको चेत्यादि । जिननमनदानसामायिकादिः स्वल्प एव कश्चिदू धर्मो भावशुद्धिविशेषेण बहुगुणः, स्वर्गापवर्गादिफलप्रदत्वात् यथा दुर्गतनार्याः सिन्दुवारकुसुमैः श्रीवीरपूजापरिणामः, जीर्णश्रेष्ठिनो दानपरिणामः, मूलदेवस्य कुल्माषप्रदानं चन्दनायाश्च, सङ्गमकस्य सकृत् परमान्नप्रदानं, श्रीपुण्याढ्यनृपस्य प्राग्भवे ऋषिनेत्रात् कण्टकापनयनं, केसरिचौरस्य सामायिक, श्रीशीतलाचार्यस्य कृतिकर्मानुष्ठानं चेत्यादि । सङ्गमकमूलदेवयोर्दानस्यानन्तरं तादृक्समृद्धिराज्यादिदायित्वेऽपि सिद्धिसुखफलपर्यवसायित्वेन महाफलत्वं ज्ञेयम् २।कश्चित् पुनर्धर्मःसुवहुबहुद्रव्य(व्यय)साधितत्वेन बहुदिनसेवितत्वेन वहुकष्टमयत्वेन वा, परमल्पगुणो भावविशुद्धिरहितत्वेनाल्पभोगसुखादिफलत्वात् , प्रतिदिनलक्षसुवर्णदातृश्रेष्ठिलक्षभोज्यकारयितृविप्रादयस्तामलिऋषिकोणिकनृपप्राग्भवतापसादयश्चात्रोदाहरणम् , तेषां भावशुद्धिराहित्यं च सम्यग्धर्माधर्मपात्रापात्रजीवादितत्त्वपरिज्ञानविकलत्वेनेति ३। चतुर्थो धर्मः श्रीजैनतीर्थयात्राप्रासादनिर्मापणादिः, तादृक्तपःकष्टानुष्ठानादिर्वा बहुः प्रागुक्तहेतोः, बहुगुणश्च भावशुद्धिविशेषेण विहितः सन् स्वर्गापवर्गादिफलत्वात् । यथा श्रीभरतचक्रिप्रभृतीनां, श्रीकुमारपालश्रीवस्तुपालमन्त्र्यादीनां, श्रीवीरप्राग्भवलक्षवर्षावधिनिरन्तरमासक्षपणकृन्नन्दनमहर्पिप्रभृतीनां चेति ४|| । अथेयमेव चतुर्भङ्गी पापमाश्रित्य भाव्यते, यथा-किञ्चित् पापं स्वल्पं दुर्वचनमात्रादिजन्मत्वात् स्वल्पजीवहिंसादिभवत्वाद्वा, स्वल्पफलं च स्वल्पयैवाविशुद्ध्या क्रोधादिरूपया विहितत्वेनाल्पस्यैवाशुभफलस्य दानात्। यथा-'त्वं किं शूलायां क्षिप्ताऽभूः? 'तव किं करौ च्छिन्नावभूताम् ?' इति वचसी मातृपुत्रयोः, 'परक्षेत्रे प्रविष्टान् पथिकान् वीक्ष्य मरक्षेत्रे यद्यमी प्रवेशमकरिष्यन् तदाऽमूनहं वटशाखायामुदलम्बयिष्यम्' इत्यादिवचांसि मित्रादीनां, क्षुलं प्रति क्रोधोमण्डूकीक्षपकस्य, सु-1 இருருருருOேCE Jain Education in colla For Private Personel Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486