Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपदेशर० तरंग ९
मुनिसुन्दर
॥ अथ नवमस्तरङ्गः॥ सू० वि०
जह ओसहेसु विरिअं, भावविसुद्धी तहेव धम्मसु । ता मोहजयसिरीए, भावविसुद्धीइ कुण धम्म॥१॥ ॥ २२६ ॥
जयतः-अप्पं बहुं जहोसह-मप्पबहुगुणं भवे चउहा। एवं विसुद्धिभेआ, धम्मो पावं विवजयओ ॥२॥
__स्पष्टा, नवरं 'विवजयउ' त्ति विपर्ययादविशुद्धिभेदादित्यर्थः, पापमपि चतुर्की भवतीति। अथास्य भावना-यथा किञ्चिद्गुडशुण्ठ्याद्यौषधम् अल्पं मात्रया स्तोकं मरिचादिमितं अल्पदिनसेवितत्वाद्वा अल्पं, अल्पगुणं च अनतिवीर्यत्वेन मात्रानुसारेणैव गुणदानसमर्थत्वात् १॥ अपरं पुनरौषधं रसाङ्गादिरूपं मात्रयाऽल्पं मरिच्यादिमितमेव, अल्पदिनसेवित्वादल्पं च; परं बहुगुणं महावीर्यत्वेन स्वल्पस्यापि बहुगुणसमर्थत्वात् २। तृतीयं त्वौषधं गुडशुण्ड्याद्येव बहुटङ्कमितस्य सेव्यमानत्वाद् बहुदिने सेव्यमानत्वाद् वा, अल्पगुणं च तथाविधविधिविकलत्वेनाशुद्धत्वेन वौषधस्य ३ । चतुर्थ त्वौषधं बहु प्राग्वद्, बहुगुणं च शुद्धत्वेन विधिसेवितत्वेन च ४ । इति दृष्टान्तभावना । ___ अथ दाान्तिकावसरः-तथा धर्मोऽपि कश्चित् पञ्चपरमेष्ठिनमस्कारगुणनश्रवणश्रीजिननमनादिर्मात्रया स्वल्पः, धनादि विनापि सुखेनैव साध्यत्वाद् वा स्वल्पः, स्वल्पगुणश्च स्वल्पभावविहितत्वेन स्वल्पस्यैव राज्यादिऋद्धिरूपस्य फलस्य वितरणात् । यथा नमस्कारश्रवणमानं समलिकायाः, सामायिक जरत्या, अव्यक्तसामायिकं श्रीसम्प्रतिनृपप्राग्भवद्रमकस्य, सक्तुप्रदानं श्रीसातवाहनभूपप्राग्भवमूलिकावाहकस्य, उपरोधदानं सुन्दरवेष्ठिनः, पञ्चजीवरक्षणं क्षत्रियस्य
0000000000000000000000
ஒருருருருருருகEEEEEEE
॥२२६।
Jain Education in
For Private & Personel Use Only
GOPainelibrary.org

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486