Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
©ज्ज्ञेयाः । अथैतद्भाव्यते - प्रथमौषधवत् सावद्यो जिनपूजादिकः कश्चिद् धर्मः साटोपः, सुबहुद्रव्यसाध्यत्वात् जनप्रसिद्धि | महिमवृद्धिहेतुत्वाच्च । अल्पगुणश्च मात्सर्यस्पर्द्धादिभिर्हीींनफलत्वकरणात् । तदुक्तम् — मात्सर्य शैथिल्य कदाग्रह क्रुधोऽनुतापदम्भाविधिगौरवाणि च । प्रमादमानौ कुगुरुः कुसङ्गतिः, श्लाघार्थिता वा सुकृते मला इमे ॥ १ ॥ एवंविधैर्मलैर्हि ) ॐ मलिनीकृतं सुकृतं महदपि हीनफलं स्याद्, यथा कुन्तलाराश्याः प्रासादादिसुकृतं मत्सरवशेन भवान्तरे शुनीत्वं 6) प्राप्ताया इति प्रथमो भेदः १ ।
।। २२५ ।।
मुनिसुन्दर सू० वि०
Jain Education In
द्वितीयौषधवदपरो धर्मः सावद्यस्तीर्थयात्रादिरेव कश्चित्साटोपः पूर्वोक्तहेतोः, बहुगुणश्च मात्सर्यादिरहितत्वेन विधिपूर्वकत्वेन च तीर्थकरत्वावधि शिवपदैश्वर्यावधि वा सम्पूर्णसुखफलप्रदत्वात्; यथा श्रीश्रेणिकस्य प्रत्यहं नवनवाष्टोत्तरशत७) सौवर्णयवैः स्वस्तिकपूरणादिविधिना श्रीजिनपूजा, श्रीकृष्णनरेन्द्रस्य प्रविवजिषूणां दीक्षोत्सवकरणादि, श्रीदशार्णभद्रस्य श्रीवीरवन्दनं, श्रीभरतचक्रिश्रीदण्ड वीर्यनृपादीनां श्री तीर्थयात्राप्रासादसाधार्मिकभक्त्यादिश्च धर्मः । इति द्वितीयः प्रकारः २ ॥ तृतीयधवत् पुनर्निरवद्यः सामायिकपौषधादिर्धर्मोऽनाटोप एव, बहिर्मुखजनेषु तादृक्प्रसिद्ध्याद्यहेतुत्वेन । तत्रापि कश्चिद्धर्मोऽल्पगुणः, प्रमादादिमलकलुषितत्वेनाल्पफलप्रदानात्, यथा विसढश्राद्धस्य विकथाप्रमादकलुषः सामायिकधर्मः, मार्दङ्गिकाल्पर्द्धिदेवत्वप्रदानात् ३ ।
90090050555696606536
For Private & Personal Use Only
उपदेशर० तरंग ८
अन्यः पुनर्बहुगुणः, प्रमादैरकलङ्कितत्वात्; यथा विकथादिप्रमादरहितः सामायिकधर्म एव, निसढश्राद्धस्य देवेन्द्र - ॐ ॥ २२५ ॥ त्वादिमहर्द्धिप्रदानात् ४ ।
Jainelibrary.org

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486