________________
कुदानयागहोमादीन् कर्दमोपमान् कुधर्मान् कुर्वते । केचिन्मिथ्याव्रततपोदानमाघस्नानादीन्यपि अशुचीनि कुर्वते, तेषांच कालकगुरुद्वेषिदत्तनृपादिवद् दुर्गतिरेव प्रायः स्यात् , केषाञ्चिद्व्यन्तरत्वाद्यपीति २॥ ___ अथ यथा वृषा उपलक्षणाद्वादयः प्राप्ती शुद्धे मिष्टे च जले रमन्तेऽतिविशेषं च न जानते, तत एव शुद्धजलाप्राप्त्या कलुषेऽपि च; तथा केचिद्भद्रकप्रकृतयोऽनभिगृहीतमिथ्यादृशो मिश्रगुणस्थानीया वा तादृक्सामग्रीविशेषेण शुद्धे जिनधर्मे मिथ्यातपोव्रतनिर्विशेषदयादानादिषु वा सामान्यतः सर्वधर्मेषु वा रमन्ते, जिनधर्मे वा ऐहिकपारत्रिकसुखार्थ सप्रत्ययजिनतीर्थादियात्रापार्श्वस्थादिलोकोत्तरकुगुरुसेवोपदेशात्यादिसमहिमस्तोत्रादिपाठस्मृतिविशेषविधिरहितजिनस्नात्रपूजावश्यकादिक्रियासु यतन्ते । पार्श्वस्थादयोऽपि वा ऐहिकनिर्वाहार्थितया परलोकसुखार्थिनोऽपि प्रमादवशाद् यतिवेषधारिणः कियदावश्यकादिक्रियापराः शुद्धोपदेशादिरतयश्च, ते च देवत्वादि लभन्ते प्रेत्य धर्म चेति ॥ ३॥ । अथ च यथा बका उपलक्षणादन्येऽपि ढीङ्कचक्रवाकसारसादयः स्वभक्ष्याणि मत्स्यादीनि यत्र शुचीन्यशुचीनि वा जले लभन्ते तत् सेवन्ते, एवं केचिद्वृषभदासश्रेष्ठिधोटकापहारब्रह्मचारितपस्विवदुदायिनृपमारकादिवदभयकुमारग्रहणार्थिकपटश्राविकादिवद् वा यस्मिन् शुद्धेऽशुद्धे वा गृहिसम्बन्धिनि यतिसम्बन्धिनि वा धर्मे कपटेनादृते परविश्वासनद्रव्या|च्छेदादिस्वकार्यसिद्धिं पश्यन्ति तमाश्रयन्ते, ते च महापापा इह परत्र च दुर्यशोजननिन्दाराजदण्डादिदुःखानि नरका
दिदुःखानि च लभन्ते, दुर्लभबोधिकतयाऽनन्तसंसारं च भ्राम्यन्तीति ४॥ INI अथ यथा गजा दानलुभ्यमरझङ्कारहारिणो राजादीनामपि मान्या अगाधे शुचिन्येव च जले रमन्ते, यथेच्छं।
शिम 0090
-
Jain Education
a
l
For Private & Personel Use Only
Nw.jainelibrary.org