Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
राप्यन्ते, कटाहिटी प्रासादा निष्पत्स्यन्त ?कन फलति कृतिनां, गृहिणीपणा,
न
च चिन्तयेद्, इत्यापैदिनैः। इत्यनुपमाडौढपुण्यकार्यकरण
00000000000000000000
लोचने ! त्वां विना कोऽन्य एवं वक्तुं जानाति । ताम्रपर्णीतटोत्पन्न-मौक्तिकरिक्षु(शुक्ति)कुक्षिजैः । बद्धस्पर्शभरा वर्णाः, प्रसन्नाः स्वादवस्तव ॥१॥ गृहचिन्ताभयहरणं, मतिवितरणमखिलपात्रसत्करणम्। किं किं न फलति कृतिनां, गृहिणी गृहकल्पवल्लीव ॥१॥राज्यस्वामिनि! वद, केनोपायेन शीघ्रं प्रासादा निष्पत्स्यन्ते ? । देव्याह-रात्रीयसूत्रधाराः पृथग्| | दिनीयसूत्रधाराश्च पृथग् व्यवस्थाप्यन्ते, कटाहिश्च टाप्यते, अमृतानि भोज्यन्ते, सूत्रधाराणां च विश्रामलाभाद्रोगो न भवति, एवं चैत्यसिद्धिः शीघ्रा । आयुर्यात्येव, श्रीरस्थिरैव, गृहीत इव केशेषु मृत्युना धर्ममाचरेत, अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेद्, इत्यादि सरस्वतीवीणाकणत्कोमलया गिरोक्त्वा निवृत्तासा।ततो मन्त्रिणा सर्वदेशकर्मस्थायेषु सैव रीतिः प्रारब्धा, निष्पन्नं च सर्व स्वल्पैर्दिनैः। इत्यनुपमादृष्टान्तलेशः ।यदाऽतिशयस्तादृक्प्रभुत्वैश्वर्यादिः, प्रौढविस्तरश्रीतीर्थयात्राचार्यादिपदस्थापना, प्रासादप्रतिमाप्रतिष्ठा, दीनोद्धारादिप्रौढपुण्यकार्यकरणादि ज्ञेयः । श्रीआनन्दादिसम्बन्धाः केचित् प्राग्लिखितत्वात् केचित् प्रसिद्धत्वाच्च ग्रन्थविस्तरभिया नात्र लिखिताः। उक्तगुणपश्चकालङ्कताश्चैते धर्मा इहापि सावेत्रिकश्लाघानृपादिपूज्यत्वसुरसाहाय्यादिहेतवः स्युः।केषाश्चित् केवलज्ञानाद्यवाप्तयेऽपि प्रेत्य तीर्थकरत्वावधिसमृद्धये चेति ।
इत्थं निदर्शनवशादवगत्य रङ्ग-चक्रित्वतीर्थकरतादि फलं गरिष्ठम् । पञ्चाङ्गचङ्गसुकृतं तदुरीकुरुध्वं, येनाप्यते सपदि मोहरिपोर्जयश्रीः ॥१॥
॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते. चतुर्थस्तरङ्गः॥
OOOOOGGEOCTOOOOOOODE
Jain Education in
For Private & Personal Use Only
Nainelibrary.org

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486