Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर सू० वि०
उपदेशर० तरंग १
॥२१२॥
BOOOOOOOOOOOOOOOOOOO
लागुणसमन्विताः संहिताङ्गलिदलपद्मवत्सुकुमारकूर्मसंस्थानमनोहारिचरणारोमरहितप्रशस्तलक्षणोपेतजङ्घायुगला निगूढमांसलजानुप्रदेशाः कदलीस्तम्भनिभसंहतसुकुमारपीवरोरुका वदनायामप्रमाणत्रिगुणमांसलविशालजघनधारिण्यः स्निग्धकान्तिसुविभक्तश्लक्ष्णरोमराजयः प्रदक्षिणावर्ततरङ्गभङ्गरनाभिमण्डलाः प्रशस्तलक्षणोपेतकुक्षयः सङ्गतपावोः कनककमलोपमसंहतात्युन्नतवृत्ताकृतिपीवरपयोधराः सुकुमारबाहुलतिकाः सौवस्तिकशङ्खचक्राद्याकृतिरेखालङ्कृतपाणिपादतला वदनत्रि-1 |भागोच्छ्रितमांसलकम्बुग्रीवाः प्रशस्तलक्षणोपेतमांसलहनुविभागा दाडिमपुष्पानुकारिशोणिताधरोष्ठा रक्कोत्पलतालुजिह्वा विकसितकुवलयपत्रायतकान्तलोचना आरोपितचापपृष्ठाकृतिसुसङ्गतभूलताकाः प्रमाणोपपन्नललाटफलकाः सुस्निग्धकान्तश्लक्ष्णशिरोरुहाः पुरुषेभ्यः किञ्चिदूनोच्छ्रयाः स्वभावत उदारशृङ्गारचारवेषाः प्रकृत्यैव हसितभणितिविलासविषयपरमनैपुण्योपताः। तथा मनुष्या मनुष्यश्च स्वभावत एव सुरभिवदनाः प्रतनुक्रोधमानमायालोभाः सन्तोषिणो निरौत्सुक्या मादेवाजेवसम्पन्ना व्यपगतवैरानुबन्धाः सत्यपि कनकादी ममत्वाभिनिवेशरहिता गजाश्वगोमहिष्यादिसद्भावेऽपि तत्परिभोगविमुखाः पादविहारिणो ज्वरादिरोगयक्षपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः प्रेष्यप्रेषकभावरहितत्वादहमिन्द्रा अष्टधनुःशतप्रमाणाः पल्योपमासयभागायुषः ६४ चतुःषष्टिपृष्ठकरण्डकोपेताः स्त्रीपुरुषयुगलव्यवस्थिताः, षण्मासशेषायुपी युगलप्रसतिधर्माणो देवलोकगामिनश्च । मरणं च तेषां जम्भाक्षुतादिमात्रेणैव । ते च कल्पद्मोपनीतमाहारमाहार्य प्रासादादिसंस्थानेषु गृहाकारकल्पद्रषु यथासुखमवतिष्ठन्ते । कल्पद्रुमाश्च दशविधास्तेभ्यो वाछितं पूरयन्ति । तद्यथा-मत्तंगा १ भिंगंगा २ तडिअंगा ३ दीवसिह ४ जोइसिहा ५ चित्तंगा ६ चित्तरसा ७ मणिअंगा८गेहागारा।
OOOOOOOOOOOOOOOOOOGS
॥२१२॥
Jain Education in
For Private Personal Use Only
djainelibrary.org

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486