Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 451
________________ தாருகாரு खिवन्ति बिल्ले निहाणुवरि ८॥३॥रयणीए संकोओ, कमलाणं हवइ लोगसन्नाए ९ । ओघे चइत्तु मग्गं, चडन्ति रुक्खेसु वल्लीओ १०॥४॥ इति । किञ्च, पृथिव्यादीनामेकेन्द्रियाणां प्रत्येक निवृत्त्युपकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्मावृतत्वादभावेऽपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपं श्रोत्रादि भावेन्द्रियज्ञानं भवति । ततश्च ते शब्दादिपञ्चविषय-15 लक्षणं कामं जानन्ति तत्र रमन्ते च । वनस्पत्यादिषु च केषुचित्तल्लिङ्गमपि स्पष्टतयोपलभ्यते । तथाहि-कलकण्ठोद्गीर्णमधुरपञ्चमोद्गारश्रवणात् सद्यः कुसुमपल्लवादिप्रभवो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तलिङ्गमवलोक्यते १। तिल-10 कादिषु तरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य २ । चम्पकाद्यंहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात्तत्प्रकटनं घ्राणेन्द्रियज्ञानस्य ३ । बकुलादिभूरुहेषु तु रम्भातिशायिनीप्रवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगुण्डूषास्वादनात्तदाविर्भावो रसनेन्द्रियज्ञानस्य ४ । कुरुबकादिविटपिषु घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणकङ्कणाधाभरणभूषितभामिनीभुजलतावगृहनसुखादू अशोकादिद्रुमेषु पद्मरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच्च झगिति प्रसूनपल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य च स्पष्टं लिङ्गमभिवीक्ष्यते।तथा पृथिवीकायस्य पारदस्य कूपस्थस्याश्वारूढस्त्रीमुखदर्शनात् तामनुधावतश्चतु(क्षु)रिन्द्रियज्ञानं व्यक्तम्। मैथुनाभिलाषादिरूपोऽपि कामश्च तस्य । तिलकतर्वादीनामपि प्रागुक्तप्रकारेण सोऽपि दर्शित एवेति । तथाहि-द्वित्रिचतुरिन्द्रियाः सर्वेऽप्याहारादिसंज्ञाभाक्त्वेन जानन्त्येव कामं पूर्वोक्तलक्षणम् । प्रायः स्वजातिविष्ठासु, संमूर्च्छन्त्ययुगेन्द्रियाः । स्वजातिलालासु पुन--मूर्च्छन्ति चतुरिन्द्रियाः॥१॥ திருமுருருருருவம் Jain Education in For Private & Personel Use Only COM.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486