________________
தாருகாரு
खिवन्ति बिल्ले निहाणुवरि ८॥३॥रयणीए संकोओ, कमलाणं हवइ लोगसन्नाए ९ । ओघे चइत्तु मग्गं, चडन्ति रुक्खेसु वल्लीओ १०॥४॥ इति । किञ्च, पृथिव्यादीनामेकेन्द्रियाणां प्रत्येक निवृत्त्युपकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्मावृतत्वादभावेऽपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपं श्रोत्रादि भावेन्द्रियज्ञानं भवति । ततश्च ते शब्दादिपञ्चविषय-15 लक्षणं कामं जानन्ति तत्र रमन्ते च । वनस्पत्यादिषु च केषुचित्तल्लिङ्गमपि स्पष्टतयोपलभ्यते । तथाहि-कलकण्ठोद्गीर्णमधुरपञ्चमोद्गारश्रवणात् सद्यः कुसुमपल्लवादिप्रभवो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तलिङ्गमवलोक्यते १। तिल-10 कादिषु तरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य २ । चम्पकाद्यंहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात्तत्प्रकटनं घ्राणेन्द्रियज्ञानस्य ३ । बकुलादिभूरुहेषु तु रम्भातिशायिनीप्रवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगुण्डूषास्वादनात्तदाविर्भावो रसनेन्द्रियज्ञानस्य ४ । कुरुबकादिविटपिषु घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणकङ्कणाधाभरणभूषितभामिनीभुजलतावगृहनसुखादू अशोकादिद्रुमेषु पद्मरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच्च झगिति प्रसूनपल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य च स्पष्टं लिङ्गमभिवीक्ष्यते।तथा पृथिवीकायस्य पारदस्य कूपस्थस्याश्वारूढस्त्रीमुखदर्शनात् तामनुधावतश्चतु(क्षु)रिन्द्रियज्ञानं व्यक्तम्। मैथुनाभिलाषादिरूपोऽपि कामश्च तस्य । तिलकतर्वादीनामपि प्रागुक्तप्रकारेण सोऽपि दर्शित एवेति । तथाहि-द्वित्रिचतुरिन्द्रियाः सर्वेऽप्याहारादिसंज्ञाभाक्त्वेन जानन्त्येव कामं पूर्वोक्तलक्षणम् । प्रायः स्वजातिविष्ठासु, संमूर्च्छन्त्ययुगेन्द्रियाः । स्वजातिलालासु पुन--मूर्च्छन्ति चतुरिन्द्रियाः॥१॥
திருமுருருருருவம்
Jain Education in
For Private & Personel Use Only
COM.jainelibrary.org