________________
मुनिसुन्दर सू० वि० ॥ २१४॥
उपदेशर० तरंग २
மருருருருருருCHOOOOOOOOOOO
अथ द्वितीयस्तरङ्गः दुविहरिउजयसिरीए,सुद्धं धम्म लहित्तु भविअनरा।मा हुपमायह जं पुण, सुद्धो धम्मो भवे दुलहो॥१॥ यतः--सवे कामं १ अत्थंरकम्मं३धम्मंजिणिंदभणिअंच।अप्पप्पा जाणंति उ, के वि विसुद्धा अदूरसिवार
व्याख्या-इह हि धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थाः। तेषु च चतुर्वपि सारं धर्मः, तन्मूलत्वादितरेषाम् । तदुक्तम्धर्मसिद्धौ ध्रुवा सिद्धि-र्युम्नप्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा, सम्पत्तिदधिसर्पिषोः ॥ १ ॥ ततो धर्मपुरुषार्थ यः साधयति स एव पुरुषः । तथा चोक्तम्-यस्य धर्मविहीनानि, दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव, श्वसन्नपि न जीवति ॥ १॥ परं स दुर्लभो जीवानाम् , यतः 'सबे काम' इत्यादि । सर्वे एकेन्द्रियेभ्यः पृथिव्यादिभ्यः प्रभृति पञ्चेन्द्रियांस्तिर्यग्नरनारकामरान यावदशेषा जीवाः काम-स्पर्शादिपञ्चविषयलक्षणं जानन्ति, तत्र प्रवर्तन्ते च । तत्रैकेन्द्रियाणां पृथिव्यादीनामाहारसंज्ञादिमत्त्वेन कामो विषयाभिलाषलक्षणः सङ्गत एव । तथा चागमः-आहार १ भय २ परिग्गह ३ मेहुण ४ तह कोह ५ माण ६ माया ७ या लोभो ८ लोगो ९ ओहो १०, सन्ना दस सबजीवाणं ॥१॥ परं ताः संज्ञास्तेषां जीवानां सूक्ष्मत्वास्पष्टचेष्टावत्त्वादिहेतुभिः केवलिनामेव प्रत्यक्षाः, न पुनः प्रायश्चर्मचक्षुषाम् । केषाञ्चित् पुनरेकेन्द्रियाणामप्याहारादिसंज्ञाश्चर्मचक्षुषां लक्ष्या अपि । तद्यथा-रुक्खाण जलाहारो १, संकोअणिआ भएण संकुयई २। निअतंतुएहिं वेढइ, वल्ली रुक्खे परिग्गहे य ३॥१॥इत्थिपरिरंभणेणं, कुरुबगतरुणो फलन्ति मेहुण्णे ४। तह कोनदस्स कंदो, हुंकारे मुयइ कोहेणं ५॥२॥ माणे झरइ रुदन्ती ६, छायइ वल्ली फलाइ मायाए ७ । लोभे बिल्लपलासे
ONTEGOGOESE
॥२ १४॥
For Private Personal use only
C