________________
उपदेशर तरंग२
मुनिसुन्दर मूर्छासंज्ञानुभावेन, तेऽपि त्रिचतुरिन्द्रियाः। सेवन्ते जन्तवो जन्तून् , मलमृतकलाभवान् ॥ २॥ इति वचनान्मैथुनासू०वि० भिलाषरूपोऽपि कामस्त्रिचतुरिन्द्रियेषु। असंज्ञिपञ्चेन्द्रियाणां पुनर्जलचरस्थलचरखेचरादिभेदानां तिरश्चां नरामराणां वेदो॥२१५॥
|| दयादिना कामः प्रागुक्तस्वरूपः स्पष्ट एवेति सुष्टूक्तं सर्वे कामं जानन्तीति ।।
__ 'अत्थं ति' तुरीयपादेऽल्पाल्पेति वचनात् पूर्वोक्तेभ्योऽल्पे जीवा अर्थ जानन्ति, अर्थार्थ प्रयतन्ते इत्यर्थः । तत्र केचनैकेन्द्रिया अप्यर्थमूढा लक्ष्यन्ते । तथाचोक्तम्-“लोभे विल्लपलासा, खिवन्ति मूले निहाणुवरि" ति । विकलेन्द्रिया अप्यर्थलुब्धा भ्राम्यन्ति । तद्यथा-कीटकादयो धान्यादिसंग्रहं कुर्वन्ति, सरघादयो मधुच्छत्रादीन् रचयन्ति, तल्लुब्धाश्च तगाहकान् दशन्ति, अनश्यन्त्योऽनौ भस्मीभवन्ति च । पञ्चेन्द्रियतिर्यक्षु च सर्पा निधानान्यधिष्ठाय तिष्ठन्ति, तल्लातॄन् दशन्ति । खञ्जरीटा निधी दृष्टे नृत्यन्ति, गोधेरकशिवादयः शब्दायन्ते च । उन्दुरादयोऽपि निधानादिषु लुभ्यन्ति, तदधिष्ठितनिधानाद्यपहारे हृदयसंस्फोटादिना म्रियन्ते च । श्रूयते च श्रीकुमारपालनृपेणोन्दुराधिष्ठितनिधानग्रहणे तस्योन्दुरस्य मृतिं दृष्ट्वा खेदात् तन्नाम्ना 'उन्दुरवसति' रिति प्रथितं जिनचैत्यं कारितम् , उन्दिरानामग्रामस्थापनादि चेति । देवेषु बहवोऽपि व्यन्तरादयो निधानान्यधितिष्ठन्ति, किञ्चिद्गृहाद्यपि । मनुष्येषु त्वर्थलोभः स्फूट एवेति ।
एते च सर्वेऽर्थाभिलाषिणः पूर्वोक्तकामाभिलाषिभ्यः स्वल्पे एवेति । का 'कम्मं ति' अर्थाभिलाषिभ्योऽप्यल्पे कर्म कृषिवाणिज्यादि गीतनृत्तयुद्धादि च जानन्ति । तत्र तिर्यक्षु ऊर्णनाभेषु
पुटविज्ञानं जालरचनादि च, सरघासु मधुच्छत्रकौशलं, पिपीलिकादिषु वल्मीकचयनं, भ्रमर्यादिषु गृहरचनादि । पञ्चेन्द्रि
-000000000000000000000000
EESOGGESCOD 1000000
1 २१५॥
Join Education
For Private Personal Use Only
jainelibrary.org