SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Chi இருOேGG Tiết येषु तु सुगृहिकापक्षिणीषु गृहविज्ञानमाश्चर्यकरं, केकिषु नृत्तं, कोकिलादिषु गीतं, शुकादिषु काव्यादिपाठकौशलं, कुक्कुलाटादिषु युद्धं, हंसेषु क्षीरनीरविवेचनं, मार्जारादिषु दम्भचातुर्य, गृहगोधादिष्वष्याखेटघटना, काकशशकमृगधूर्त्तादिषु लकपटबुद्धिसूत्रणा, सादिषु वैरनिर्यातनादि चेत्यादि कियदुच्यते ? । मनुष्येषु तु कृष्यादिकर्म बहुतरभेदं लिखितादिक-| लाविविधविज्ञानादि सुप्रतीतमेवेति । एवं देवनारकेष्वपि । परमेते सर्वेऽपि कर्मज्ञाः पूर्वेभ्यः स्वल्पा एवेति । | 'धम्म ति' कर्मज्ञेभ्योऽप्यल्पा धर्मज्ञाः। यतोऽनन्तेष्वपि जन्तुषु धर्म मनुष्यवर्जा जीवाः प्रायो न जानन्ति, तिरश्चां विवेकविकलत्वाद् देवनारकाणां पुनः क्रमाद्विषयासक्तत्ववेदनाकुलत्वाभ्यां चेति, मनुष्या अपि कर्मभूमिजादय एव, तेष्वपि बहवोऽनार्यदेशोद्भवत्वेन, आर्यदेशोद्भवा अपि बहवोऽज्ञानेन, कुटुम्बधनादिव्यामोहेन, धनार्जननृपव्यापारादिवैयग्येण, विषयादिलाम्पट्येन, घृतादिव्यसनैः धर्मसामय्याद्ययोगेन च परवशा धर्मेत्यक्षरशलाकयाऽप्यविद्धकर्णा एव, केचनात्यल्पा एव तु यमपि कमपि धर्म विदन्ति, तस्यापि श्रद्धातारः कर्तारश्च स्वल्पाः स्वल्पतराश्चेति धर्मज्ञाः स्वल्प-| तराः पूर्वोक्तजीवेभ्यः। XT 'जिणिदभणि चेति' जिनेन्द्रभणितं पुनर्धर्म पूर्वोक्तेभ्योऽपि स्वल्पतमा एव विदन्ति, यतो मानुष्यार्यकुलादिसामका ग्यवाप्तावप्यनासन्नसिद्धिकत्वेन मिथ्यात्वमोहनीयस्य दुर्जयत्वादिना वा विषयादिषु लुब्धत्वेन च, विषयासक्तेष्वेव देवगु-10 वादिष्वास्थाबन्धपराः प्रायो जीवाः कुपथेष्वेव भ्राम्यन्ति । तदुक्तम्-दुलहु च्चिअ जिणधम्मो, पत्ते मणुअत्तणाइभावे वि। कुपहबहुअत्तणेणं,विसयसुहाणं च लोभेणं ॥१॥ कुपथाश्च बौद्धादिषड्दर्शनत्रिषष्ट्यधिकत्रिशत्पाखण्डादिपरिकल्पिता धर्माः, TT பருகருகருகாசு TT, TT TT For Private Personel Use Only wainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy