________________
उपदे
मुनिसुन्दर सू० वि० ॥२१६॥
।
तरंग २
10000000000000000000000000
सर्वेऽपि जिगमिषितमोक्षपुरस्य प्रतिकूलत्वात् । केचित् पुनरासन्नसिद्धिका लघुकर्माण एव च जिनप्रणीतं धर्म विदन्ति ।। यदुक्तम्-आसन्ने परमपए, पावेयवम्मि सयलकल्लाणे । जीवो जिणिंदभणिअं, पडिवजइ भावओ धम्मं ॥१॥ तेष्वपि च केचिन्मिथ्यात्वमोहनीयस्य बलीयस्त्वेन पार्श्वस्थादिकुसङ्गत्या दुर्बलधृतिकत्वेनेहलोकसुखधनापत्यादिव्यामूढतया च लौकिकलोकोत्तरसप्रत्ययदेवगुर्वादिपूजायात्राबल्युपयाचितमाननादिभिःपित्र्यकर्मानुगतैश्च मिथ्यात्वैर्मात्सर्यकदाग्रहादिभिनिद्राविकथाविषयकषायादिप्रमादैश्च दुर्लभमपि जिनधर्म प्राप्य कलुषयन्ति वर्धयन्ति च भवम् । तथा चाभ्यधिष्महिदोसगुणोभयणुभयं, जह कुज्जा ओसहं तहा धम्मो । मिच्छत्तं १ तच्चत्तो २, तम्मीसो ३ भावसुन्नो ४ अ॥१॥अपिच-लोइअमिच्छं चइउं, मुझइ लोउत्तरम्मि जो मिच्छे । सो वणदावाउ नहो, घरुहिएणाग्गिणा दड्डो ॥१॥ किञ्च, शैथिल्यमात्सर्यकदाग्रहक्रुधो-अनुतापदम्भाविधिगोरवाणि च । प्रमादमानौ कुगुरुः कुसङ्गतिः, श्लाघार्थिता वा सुकृते मला इमे ॥१॥ ततः शुद्धो धर्मः दुर्लभतमः, आसन्नसिद्धिकाः केचिदेव च तं लभन्ते। तथैव चाह-'के वि विसुद्धा अदूरसिवा' इति, शुद्धो धर्मश्च देवगुर्वादीनां शुझ्या स्यात् । अवोचाम च-तत्त्वेषु सर्वेषु गुरुः प्रधान, हितार्थिधर्मा हि तदुक्तिसाध्याः। श्रयंस्तमेवेत्यपरीक्ष्य मूढ!, धर्मप्रयासान् कुरुषे वृथैव ॥ १ ॥ भवान्न धर्मेरविधिप्रयुक्तैर्गमी शिवं येषु गुरुर्न शुद्धः। रोगी हि कल्यो न रसायनैस्तैर्येषां प्रयोक्ता भिषगेव मूढः ॥२॥ गजाश्वपोतोक्षरथान् यथेष्ट-पदाप्तये भद्र ! निजान् परान् वा । भजन्ति विज्ञाः सुगुणान् भजैवं, शिवाय शुद्धान् गुरुदेवधर्मान् ॥ ३ ॥ इत्यादि । ततः
நடுருருருருருருருருருருருருருருருருர்
॥२१
६॥
Jain Education
For Private
Personel Use Only
ainelibrary.org