Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 458
________________ सुनिसुन्दर सू० वि० ॥ २९८ ॥ Jain Education LIG जलही निही हिरण्णाणं । गयणं ताराण तहा, गुणाण सम्मत्तमाहारो ॥ १ ॥ अंधारनच्चि अं जह, सबदेहुवट्टणं च जह विहलं । तह सम्मत्तेण विणा, सयलं वज्झं अणुट्ठाणं ॥ २ ॥ यथा यथा च सम्यक्त्वस्याधिकाधिकं शुद्धिस्तथा तथा भावादिसहकृतः सर्वोऽपि धर्मः सुपर्वादीनामपि श्लाघास्पदं भवति, यथा श्रीश्रेणिकनृपसुलसाश्राविकादीनाम् । शुद्धे च | सम्यक्त्वे भावादयोऽपि शुद्धा एवोल्लसन्ति, सुतरां सौभाग्यमावहन्ति, धर्मस्य महिमोत्कर्षमारोपयन्ति च । ततश्च शुद्धसम्यक्त्व सहकृतानि दानाद्यनुष्ठानान्यपि महाफलानि जायन्ते, यथा श्रीश्रेणिकनृपादीनामेव जिनपूजादीनि तीर्थकर त्वावधि शुभफलानि । तथा चोक्तम्-दानानि शीलानि तपांसि पूजा, सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतपालनं च, सम्यक्त्वमूलानि महाफलानि ॥ १ ॥ अशुद्धे पुनः सम्यक्त्वे वाऽसति प्रायो भावादयोऽपि कदाग्रहादिप्रतिविद्धा अशुद्धा एव स्फुरन्ति, जमालिगोष्ठामा हिला दीनामिव, कोणिकनृपप्राग्भवतपस्वि गैरिक तपस्विप्रभृतीनामिव च । अशुद्धं च सम्यक्त्वं देवगुरुधर्मगतमिथ्यात्व क्रियादिभिः कषायादिभिर्वा कलुपीकृतत्वेन, तथाविधे च तस्मिन् सति श्राद्धानां दानादिः पौषधावश्यकादिश्च धर्मोऽप्यल्पफल एवः स्वकारितवापीमध्यदर्दुरीभूतनन्दमणिकारादीनामिव, सर्व| विरतिधर्मश्च जमाल्यादीनामिव किल्विषदेवत्वं प्रपन्नानाम् । ततश्च कदाग्रहादिभिः स्थूलप्रमादादिभिर्मिथ्यात्व क्रियादिभिर्वा कलुषीकृत सम्यक्त्वैर्मिथ्यादृग्भिर्वा विहितानि दानाद्यनुष्ठानानि धर्मतया व्यवह्रियमाणान्यपि धर्मकलासाधकत्वेन धर्माभास एवेति शुद्धसम्यक्त्वमूल एव धर्मो महाफलः, परमं च मङ्गलं मोदकवदिति । यथा च शुद्धे दले यथा यथा स्नेहसौष्ठवं तथा तथा रसवृद्धिर्मोद के, एवं शुद्धेऽपि सम्यक्त्वे यथा यथा भावसौष्ठवं तथा तथा धर्मस्य महाफलत्वम् । 5 For Private & Personal Use Only उपदेशर तरंग ३ ॥ २९८ ॥ chainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486