________________
सुनिसुन्दर सू० वि०
॥ २९८ ॥
Jain Education
LIG
जलही निही हिरण्णाणं । गयणं ताराण तहा, गुणाण सम्मत्तमाहारो ॥ १ ॥ अंधारनच्चि अं जह, सबदेहुवट्टणं च जह विहलं । तह सम्मत्तेण विणा, सयलं वज्झं अणुट्ठाणं ॥ २ ॥ यथा यथा च सम्यक्त्वस्याधिकाधिकं शुद्धिस्तथा तथा भावादिसहकृतः सर्वोऽपि धर्मः सुपर्वादीनामपि श्लाघास्पदं भवति, यथा श्रीश्रेणिकनृपसुलसाश्राविकादीनाम् । शुद्धे च | सम्यक्त्वे भावादयोऽपि शुद्धा एवोल्लसन्ति, सुतरां सौभाग्यमावहन्ति, धर्मस्य महिमोत्कर्षमारोपयन्ति च । ततश्च शुद्धसम्यक्त्व सहकृतानि दानाद्यनुष्ठानान्यपि महाफलानि जायन्ते, यथा श्रीश्रेणिकनृपादीनामेव जिनपूजादीनि तीर्थकर त्वावधि शुभफलानि । तथा चोक्तम्-दानानि शीलानि तपांसि पूजा, सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतपालनं च, सम्यक्त्वमूलानि महाफलानि ॥ १ ॥ अशुद्धे पुनः सम्यक्त्वे वाऽसति प्रायो भावादयोऽपि कदाग्रहादिप्रतिविद्धा अशुद्धा एव स्फुरन्ति, जमालिगोष्ठामा हिला दीनामिव, कोणिकनृपप्राग्भवतपस्वि गैरिक तपस्विप्रभृतीनामिव च । अशुद्धं च सम्यक्त्वं देवगुरुधर्मगतमिथ्यात्व क्रियादिभिः कषायादिभिर्वा कलुपीकृतत्वेन, तथाविधे च तस्मिन् सति श्राद्धानां दानादिः पौषधावश्यकादिश्च धर्मोऽप्यल्पफल एवः स्वकारितवापीमध्यदर्दुरीभूतनन्दमणिकारादीनामिव, सर्व| विरतिधर्मश्च जमाल्यादीनामिव किल्विषदेवत्वं प्रपन्नानाम् । ततश्च कदाग्रहादिभिः स्थूलप्रमादादिभिर्मिथ्यात्व क्रियादिभिर्वा कलुषीकृत सम्यक्त्वैर्मिथ्यादृग्भिर्वा विहितानि दानाद्यनुष्ठानानि धर्मतया व्यवह्रियमाणान्यपि धर्मकलासाधकत्वेन धर्माभास एवेति शुद्धसम्यक्त्वमूल एव धर्मो महाफलः, परमं च मङ्गलं मोदकवदिति । यथा च शुद्धे दले यथा यथा स्नेहसौष्ठवं तथा तथा रसवृद्धिर्मोद के, एवं शुद्धेऽपि सम्यक्त्वे यथा यथा भावसौष्ठवं तथा तथा धर्मस्य महाफलत्वम् । 5
For Private & Personal Use Only
उपदेशर तरंग ३
॥ २९८ ॥
chainelibrary.org