________________
100000000000000000000
किञ्च, यथा दलस्नेहसौष्ठवेऽपि मोदका गुल्येनैव स्वादिष्ठतां स्वीकुर्वते विशेषपुष्ट्यादिहेतवश्च स्युः, एवं सम्यक्त्वभावयोः सौष्ठवेऽपि धर्मा यथोक्तविधिनाऽनुष्ठीयमाना एव कर्तुरिहापि प्रौढिहेतवः, प्रेत्याशेषसुखसम्पदे कर्मक्षयादिविशेषफलाय च भवन्ति । उक्तञ्च-सिप्पाणि अ सत्थाणि अ, जाणतो वि हुन जुंजई जो उ । तेसिं फलं न भुंजइ, इअ अजयंतो जई नाणी ॥१॥ये केचन पुनर्मरुदेवादिनिदर्शनानि पुरस्कृत्य क्रियां विनापि केवलं भावमेव मोक्षाङ्गं व्यवस्थापयन्ति ते नैव जिनवचनतत्त्वज्ञाः । तथा च धर्मदासगणयः-केइत्थ करितालंबणं इमं तिहुअणस्स अच्छेरं । जह नियमा खविअंगी, मरुदेवी भगवई सिद्धा ॥१॥ किं पि कहिं पि कयाई, एगे लद्धीहि केहिवि निभेहिं । पत्तेअबुद्धलाभा, हवन्ति
अच्छेरयम्भूआ ॥२॥ निहिसंपत्तमहन्नो, पत्थितो जह जणो निरुत्तप्पो । इह नासइ तह पत्तेअबुद्धलच्छि पडिच्छंतो का॥३॥ इति । किञ्च, यथा मोदका दलादित्रयसुभगा अपि वेगरयोगे विशिष्यतमं सौभाग्यं भजन्ते, तथा धर्मा अपि| | सम्यक्त्वादियोगेऽप्यौचित्यगुणेन । तदुक्तम् -सामन्ने मणुअत्ते, जे केई पाउणन्ति इह कित्तिं । तं मुणह निवियप्पं, | उचिआचरणस्स माहप्पं ॥१॥ अपि च-औचित्याच्चक्षुषि न्यस्तं, श्रिये कजलमप्यहो! । अनौचित्येन पादस्थं, न कुण्डलमपीष्यते ॥२॥ तथा-आदेयत्वमसंस्तुतेऽपि हि जने विस्तारयत्यञ्जसा, दुश्चित्तानपि सान्त्वयत्यवनिभृत् प्राया
नपायोद्यतान् । तं संवर्गयति त्रिवर्गमिह वाऽमुत्रापि यस्माच्छुभं, किंवा तन्न तनोति यत् सुकृतिनामौचित्यचिन्तामणिः 6॥१॥ तत्पुनरौचित्यं देवगुरुसाधर्मिकांदिगोचरं, पितृमातृकलत्रपुत्रभातृस्वजनपरिजनादिविषयं, नृपमन्त्रिवेष्ठिपौरजन
பாடுடுடுடுருருருருருருருருருருருருருருருரு
Jain Eduentan
For Private Personal Use Only
How.iainelibrary.org