Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपदे
मुनिसुन्दर सू० वि० ॥२१६॥
।
तरंग २
10000000000000000000000000
सर्वेऽपि जिगमिषितमोक्षपुरस्य प्रतिकूलत्वात् । केचित् पुनरासन्नसिद्धिका लघुकर्माण एव च जिनप्रणीतं धर्म विदन्ति ।। यदुक्तम्-आसन्ने परमपए, पावेयवम्मि सयलकल्लाणे । जीवो जिणिंदभणिअं, पडिवजइ भावओ धम्मं ॥१॥ तेष्वपि च केचिन्मिथ्यात्वमोहनीयस्य बलीयस्त्वेन पार्श्वस्थादिकुसङ्गत्या दुर्बलधृतिकत्वेनेहलोकसुखधनापत्यादिव्यामूढतया च लौकिकलोकोत्तरसप्रत्ययदेवगुर्वादिपूजायात्राबल्युपयाचितमाननादिभिःपित्र्यकर्मानुगतैश्च मिथ्यात्वैर्मात्सर्यकदाग्रहादिभिनिद्राविकथाविषयकषायादिप्रमादैश्च दुर्लभमपि जिनधर्म प्राप्य कलुषयन्ति वर्धयन्ति च भवम् । तथा चाभ्यधिष्महिदोसगुणोभयणुभयं, जह कुज्जा ओसहं तहा धम्मो । मिच्छत्तं १ तच्चत्तो २, तम्मीसो ३ भावसुन्नो ४ अ॥१॥अपिच-लोइअमिच्छं चइउं, मुझइ लोउत्तरम्मि जो मिच्छे । सो वणदावाउ नहो, घरुहिएणाग्गिणा दड्डो ॥१॥ किञ्च, शैथिल्यमात्सर्यकदाग्रहक्रुधो-अनुतापदम्भाविधिगोरवाणि च । प्रमादमानौ कुगुरुः कुसङ्गतिः, श्लाघार्थिता वा सुकृते मला इमे ॥१॥ ततः शुद्धो धर्मः दुर्लभतमः, आसन्नसिद्धिकाः केचिदेव च तं लभन्ते। तथैव चाह-'के वि विसुद्धा अदूरसिवा' इति, शुद्धो धर्मश्च देवगुर्वादीनां शुझ्या स्यात् । अवोचाम च-तत्त्वेषु सर्वेषु गुरुः प्रधान, हितार्थिधर्मा हि तदुक्तिसाध्याः। श्रयंस्तमेवेत्यपरीक्ष्य मूढ!, धर्मप्रयासान् कुरुषे वृथैव ॥ १ ॥ भवान्न धर्मेरविधिप्रयुक्तैर्गमी शिवं येषु गुरुर्न शुद्धः। रोगी हि कल्यो न रसायनैस्तैर्येषां प्रयोक्ता भिषगेव मूढः ॥२॥ गजाश्वपोतोक्षरथान् यथेष्ट-पदाप्तये भद्र ! निजान् परान् वा । भजन्ति विज्ञाः सुगुणान् भजैवं, शिवाय शुद्धान् गुरुदेवधर्मान् ॥ ३ ॥ इत्यादि । ततः
நடுருருருருருருருருருருருருருருருருர்
॥२१
६॥
Jain Education
For Private
Personel Use Only
ainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486