Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
00000000ॐॐॐॐॐ000000000
|९ अणिगणीय १० ति ॥ तत्राद्याः कल्पशाखिनो विशिष्टबलवीर्यकान्तिविस्रसापरिणतसरससुगन्धिस्वादुमनोहारि-1 नानाप्रकारमदिरापूर्णकौशिकः फलैरिव शोभमानास्तिष्ठन्ति, तेभ्यस्तेषां मनुष्याणां मद्यावाप्तिर्भवति १। भृङ्गाङ्गाः पुनयेथेह मणिकनकमयविचित्रभाजनानि दृश्यन्ते तथैव विस्रसापरिणतः स्थालकच्चोलादिभिर्नानाविधभाजनैः फलैरिव शोभमाना दृश्यन्ते, तेभ्यस्तेषां भाजनानि भवन्ति, एवमन्यत्रापि यद् येषु प्राप्यते तत्तेभ्यस्तेषां भवतीति द्रष्टव्यम् २। त्रुटिताङ्गास्तु ततविततघनशुषिरभेदभिन्नै नाप्रकारैरातोयैः फलैरिवोपशोभितास्तिष्ठन्ति ३ । दीपशिखास्तु यथेह स्निग्धाः प्रज्वलन्त्यः कनकमणिमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते, तद्वद् विस्रसापरिणतविशिष्टोद्योतेन सर्वमुद्योलातयन्तस्तिष्ठन्ति ४ । ज्योतिःशिखास्तु रविमण्डलमिव स्वतेजसा सर्वमवभासयन्तो वर्तन्ते ५। चित्राङ्गास्तु विचित्रसरस
सुरभिपञ्चवर्णमाल्यमालाभिरामाः सदैवासते ६। चित्ररसास्तु इहत्यकलमशालिदालिपक्वान्नव्यञ्जनादिभ्योऽतीवापरिमि-TAK तमाधुर्यस्वादुतादिगुणोपेतविचित्रखाद्यभोज्यवस्तुपरिपूर्णैः फलमध्यैर्विराजमानाः सन्तिष्ठन्ते ७ । मणिकाङ्गास्तु विस्रसाप|रिणतातिविमलमहाय॑भुवनैकसारस्फारकटककेयूरनूपुरादिभिर्भूषणनिवहैः समन्वितास्तिष्ठन्ति ८ । गृहाकारास्तु विस्रसापरिणामत एव प्राकारोपगूढसोपानपतिविचित्रशालारतिगृहगवाक्षगुप्तप्रकटानेकापवरककुट्टिमतलाद्यलङ्कृतविविधभवनसम|नुगतास्तिष्ठन्ति ९ । अनन्नास्तु विस्रसावशत एव स्फुरत्प्रचुरतेजोऽतिसूक्ष्मसुकुमारदेवदूष्यानुकारिप्रचुरविचित्रवस्त्रानुगताः सतिष्ठन्ते १० । इत्युक्तं षट्पञ्चाशदन्तरद्वीपमनुष्याणां सुखस्वरूपम् । एतेभ्यः पञ्चसु हैमवतेषु ऐरण्यवतेषु च मनुष्याणा
போருருருருருருருருருருகன்
Jain Education in
For Private Personel Use Only
Amrainelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486