Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 443
________________ 000000000000000000६ कयवरम्मि पडिया वि । जीवो वि तह ससुत्तो, न नस्सइ गओ वि संसारे ॥१॥ छठमदसमदुवालसेहिं अबहुस्सुअस्स जा सोही । इत्तो अ अणंतगुणा, सोही जिमिअस्स नाणि(ण)स्स ॥२॥ इति चतुर्थो भङ्गः ४। __ तथा केचिन्मुनयः श्राद्धा वा श्रुतधर्मे सर्वतश्चराः स्युः । कोऽर्थः?, ते खल्वागमं सूत्रतोऽर्थतश्च सर्वतः स्पृशन्ति, ततश्च सम्यगुत्सर्गापवादादिवेत्तृतया यथाद्रव्यक्षेत्रकालभावादियुक्तिलाभमिच्छन्तः कदाचिदनुश्रोतश्चरन्ति, सम्यगागमोक्तमार्गे चरन्तीत्यर्थः । कदाचित्प्रतिश्रोतश्चरन्ति, आगमप्रतिकूलमार्गे चरन्तीत्यर्थः । तथाहि-'जीवहिंसा न विधेया' 'औद्देशिकः पिण्डो न ग्राह्यः' इत्यादिः खलु यतीनामागमानुश्रोतो मार्गः। उत्सर्गापवादविधिकुशलाः पुनः कदाचिद् जीव-| हिंसाद्यपि कुर्वते, औद्देशिकाद्यशुद्धपिण्डोपजीविनोऽपि भवन्ति, अन्यथा वा यथायुक्तिप्रतिश्रोतश्चरत्वं साधूनां श्राद्धानां |च भावनीयमागममर्मज्ञैः । अथ ते कदाचिदागमप्रवाहस्यान्तेऽपि चरन्ति, यथा श्रीविष्णुकुमारश्रीकालिकसूरिप्रभृतयोsपरेऽप्यत्र दृष्टान्ता यथार्ह स्वयमवतार्या इति । एते च विज्ञनिर्यामका इव भवार्णवे स्वयं तरन्ति परांश्च तारयन्तीति सर्वो-| त्तमा ज्ञेयाः। अन्येषामपि चतुर्णा यथास्वस्वक्रियानुसारेण यथास्थानं फलादि स्वयं भावनीयमिति । इत्याद्यवाप्तश्रुतधर्मकेष्वपि, क्षयोपशान्तेः खलु मोहकर्मणः। निबुध्य वैविध्यमथोद्यताः स्थ हे!, रयेण मोहारिजयश्रिये जनाः॥१॥ ॥ इति तपाश्री०मुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे तृतीयेऽशे षष्ठस्तरङ्गः ॥ उ०३६ Jan Education Inter For Private Personel Use Only

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486