________________
Jain Education I
लितः सार्थमिलनेच्छुः तावताऽटव्यां मिलितैस्तस्करैर्लण्टितसर्वस्वो दुःखी संवृत्त इति सुवर्णसहस्रेणोपमितं स्वर्गसुखं, काकिण्योपमितं च मनुष्य भवसम्बन्धिविषयसुखमित्युपमानोपमेयभावना सुगमैवेति ।
निदर्शनैराम्रफलादिभिर्गुरुं, हानिं विभाव्येति बुधाः ! प्रमादिनाम् । धुतप्रमादाः सुकृते सदा स्थ हे !, स्पृहा विमोहारिजयश्रिये यदि ॥ १॥
॥ इति तपागच्छेशश्रीमुनि सुन्दर सूरिविरचिते श्री उपदेशरत्नाकरे मध्याधिकारे तृतीयेऽंशे तृतीयस्तरङ्गः ॥
For Private & Personal Use Only
jainelibrary.org