Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 413
________________ trang các अनया दिशा चन्दनकाष्ठवहनत्रिभेद्यपि भावनीया । तद्यथा-चन्दनभारं वेष्टया वहन् वेष्टिवाहनं द्विषन्नपि चन्दनप-1 रिमलेन प्रीयमाणो मनाक् चन्दनं बहु मन्यते, निःस्वोऽपि चन्दनगुणान् परिचित्या जानाति, तद्रूपं वस्तु निःस्वस्य दुर्लभमप्युपलक्षयति, उपलक्षितं पश्चादपि कदाचिद्गुणाय स्यात् , पतिताग्रहान्तरालोज्झनेच्छादि च तृणकाष्ठभरवहनसममेव। एवं कश्चिद्धर्म कुलाचारादिना किञ्चिद् बहु मन्यमानोऽपि प्रमादादिना भाबिदुर्गतिकत्वादिना वा कर्तु नोत्सहते, पित्रादिभिर्बलात् कार्यमाणश्च वेष्टिसमं मन्यते, हठारूढश्च न कुरुतेऽपि, यद्यकुछुटति सोऽपि वेष्टिमिव जैनधर्म मन्यमानस्तद्विराधनया तिर्यगादिगतिं लभते, अभ्यासवशाहितसंस्काराच्च जातिस्मृत्यादिना कदाचिद्बोधिं लभते, स्वयम्भूरमणसमुद्रमध्यमत्स्यीभूतश्रेष्ठिपुत्रवत् । एवं मिथ्यात्वमप्यारम्भादिपापमपि वा किश्चिद् बहु मन्यमानः परतन्त्रतया कुर्वन्नल्पकर्मबन्धभाग भवति, पुण्यान्तराभावे च तिर्यग्गत्यादि प्राप्नोति, मिथ्यात्विदेवत्वाद्यपि प्राप्नोति, दृष्टान्ता इहापि स्वयं ज्ञेयाः । इति पुण्यपापयोर्द्धितीयत्रिभेद्यां प्रथमो भेदः मूलतश्चतुर्थः ४ ॥ कश्चित्तु चन्दनकाष्ठभारमेव भाटकेन वहति, स च वस्त्वपि परिमलादिगुणेन वहु मन्यते भाटकागमनाद्वहनमपि च । अन्यथा भाटकानागमनाद , उक्तस्थानं च प्रापयत्येव,पतिताग्रहणादि च प्राग्वत् । एवं कश्चिजैनधर्म इह परत्र च दृष्टसुख. फलतया जानन्नानुमानिकबहुमानं तस्मिन् वहमाने ऐहिकराज्यादिसुखविघ्नापहाराद्यर्थं सप्रभावस्थानजिनार्चनगुरुवन्दनतपोऽनुष्ठानादि कुरुते, पतिताग्रहणवदतिबहुमानाभावाद् विध्यादि न सत्यापयति, स च इहापि ग्रामसीमार्थविवदमानराजसमीपगच्छत्सेवकद्वयप्रथमसेवक वजयादि लभते । स्वर्णगिरिश्रीपार्श्वनाथस्तुतिकारिकविविणादिवत् कुष्ठ 000000000000000000 rất chi tiết các Jain Educa t ional For Private Personal Use Only |www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486