________________
trang các
अनया दिशा चन्दनकाष्ठवहनत्रिभेद्यपि भावनीया । तद्यथा-चन्दनभारं वेष्टया वहन् वेष्टिवाहनं द्विषन्नपि चन्दनप-1 रिमलेन प्रीयमाणो मनाक् चन्दनं बहु मन्यते, निःस्वोऽपि चन्दनगुणान् परिचित्या जानाति, तद्रूपं वस्तु निःस्वस्य दुर्लभमप्युपलक्षयति, उपलक्षितं पश्चादपि कदाचिद्गुणाय स्यात् , पतिताग्रहान्तरालोज्झनेच्छादि च तृणकाष्ठभरवहनसममेव। एवं कश्चिद्धर्म कुलाचारादिना किञ्चिद् बहु मन्यमानोऽपि प्रमादादिना भाबिदुर्गतिकत्वादिना वा कर्तु नोत्सहते, पित्रादिभिर्बलात् कार्यमाणश्च वेष्टिसमं मन्यते, हठारूढश्च न कुरुतेऽपि, यद्यकुछुटति सोऽपि वेष्टिमिव जैनधर्म मन्यमानस्तद्विराधनया तिर्यगादिगतिं लभते, अभ्यासवशाहितसंस्काराच्च जातिस्मृत्यादिना कदाचिद्बोधिं लभते, स्वयम्भूरमणसमुद्रमध्यमत्स्यीभूतश्रेष्ठिपुत्रवत् । एवं मिथ्यात्वमप्यारम्भादिपापमपि वा किश्चिद् बहु मन्यमानः परतन्त्रतया कुर्वन्नल्पकर्मबन्धभाग भवति, पुण्यान्तराभावे च तिर्यग्गत्यादि प्राप्नोति, मिथ्यात्विदेवत्वाद्यपि प्राप्नोति, दृष्टान्ता इहापि स्वयं ज्ञेयाः । इति पुण्यपापयोर्द्धितीयत्रिभेद्यां प्रथमो भेदः मूलतश्चतुर्थः ४ ॥
कश्चित्तु चन्दनकाष्ठभारमेव भाटकेन वहति, स च वस्त्वपि परिमलादिगुणेन वहु मन्यते भाटकागमनाद्वहनमपि च । अन्यथा भाटकानागमनाद , उक्तस्थानं च प्रापयत्येव,पतिताग्रहणादि च प्राग्वत् । एवं कश्चिजैनधर्म इह परत्र च दृष्टसुख. फलतया जानन्नानुमानिकबहुमानं तस्मिन् वहमाने ऐहिकराज्यादिसुखविघ्नापहाराद्यर्थं सप्रभावस्थानजिनार्चनगुरुवन्दनतपोऽनुष्ठानादि कुरुते, पतिताग्रहणवदतिबहुमानाभावाद् विध्यादि न सत्यापयति, स च इहापि ग्रामसीमार्थविवदमानराजसमीपगच्छत्सेवकद्वयप्रथमसेवक वजयादि लभते । स्वर्णगिरिश्रीपार्श्वनाथस्तुतिकारिकविविणादिवत् कुष्ठ
000000000000000000
rất chi tiết các
Jain Educa
t
ional
For Private Personal Use Only
|www.jainelibrary.org