________________
मुनिसुन्दर सू० वि०
॥१९५॥
@@@@99606
श्रीयुगादिजिनचरित्रोक्तावमदुःखितनिर्वाहार्थशिवार्चकश्राद्धादिवद्, आरम्भे कृषिकर्मारम्भकभव्यकुटुम्बादिवच्च । इति उपदेशर पुण्यपापयोर्द्वितीयो भेदः २॥
| तरंग ११ ___ अथ कश्चित्तृणकाष्ठभारं स्वकं वहति । स च तस्मिन्नपि नियन् यत्नेन वहति पतिततृणादि गृह्णाति न पातयति । एवं(तत्)। गाश्चारयिष्यामि ततो दुग्धं भविष्यति, तत्पानेन पुष्टयादि भावीत्यादिफलस्यान्तराले न मुञ्चति, विशेषविघ्नादिकारणं विना स्वस्थानं प्रापयत्येव । एवं कश्चिद्भद्रकप्रकृतिरपरिणतविशेषगुरूपदेशो लोकपूज्यताबहुपौरलोकादरादि दृष्ट्वा सञ्जातजैनधर्मश्रद्धो विशिष्य स्वर्गापवर्गादिफलमजानान ऐहिकं पारत्रिकं वा राज्यादिफलं वाञ्छन् जिनार्चादानतपोनियमादिदृष्टज्ञातमात्रविधिना कुरुते, विशेषविघ्नाद्यभावे च न मुञ्चति, स तेन धर्मेणेह परत्र चार्थराज्यादि लभते, भाग्यादिसामग्रीविशेषेण बोधिवीजविशेषधर्मानुष्ठानाद्यपि प्राप्नोति, ततोऽधिकमपि च फलम् , इह चोपरोधदानदातृतद्भवप्राप्तस्वर्णपुष्पवृष्टिसुन्दरवणिग्नवपुष्पीजिनार्चाकारकाशोकमालिकाभीरादयो दृष्टान्ताः ॥ एवं कश्चिन्मिथ्यादृगपरिणतकुशास्त्रादि-10 विशेषः कुलाचारादिमात्रधिया गुर्वादिसंसर्गादिना वा ऐहिकमारोग्यविनापहारादि पारत्रिकमर्थराज्यादि चार्थमर्थयमानो
त्यास्थाद्यभावादिनाऽतिसावा कुगुरुकुदेवार्चाकुदानाग्निहोत्रस्नानादिमिथ्यात्वं तृणकाष्ठभारमिव मन्यमानः कुरुते । विशेषविघ्नाभावसुगुर्वादिसंयोगाद्यभावे च न मुञ्चति । सोऽप्यनतिदुःखतिर्यगादिगतिं लभते, गण्डकश्वापदीभूतविष्णुद-10 तश्रेष्ठिवत् । एवमारम्भादिपापमपि कुर्वाणस्तिर्यगादिगतिं लभते, तापसश्रेष्ठयादिदृष्टान्ताश्चात्र ज्ञेयाः । इति पुण्यपापयोस्तृतीयो भेदः ३॥
1000000000000000000
२५॥
6000
Jan Educatan
For Private Personal Use Only
How.jainelibrary.org