SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 90000060 33990903 Jain Educational कार्तिकश्रेष्ट्यादयः, आरम्भादिपापे चेटककोणिकनृपयुद्धसारथीभूतवरुणादयश्च । इति मिथ्यात्वारम्भादिपापपुण्ययोस्तृणकाष्ठादिवेष्टिदृष्टान्तेन प्रथमो भेदः १ ॥ अथ कश्चित्तमेव तृणकाष्ठभारं भाटकेन वहति । स च सकाम एव सहर्ष वहति पारं प्रापयति, न च तस्मिन् स्निह्यति न च तं बहुमन्यते, केवलं भाटकमेव बहु मन्यते; एवं कश्चिद्वहुसंसारोऽभव्यो वा केवलमैहिकमे वार्थमिच्छंस्तृणकाष्ठभारसदृशं जैनधर्म निःसारमपि मन्यमानः कुरुते तद्यथा - आरोग्यार्थ समहिमसाधिष्ठायक देवतार्चादिकं करोति, जीरापहयाद्यर्चकविप्रम्लेच्छादिवत् । अश्वार्थ पालकने मिवन्दनवज्जिनगुरुवन्दनाद्यपि तनोति, जिनदास श्रेष्ठयश्वापहारकब्रह्मचारिश्री अभयकुमारनियन्त्रकगणिकाद्वयवत् कूलवालक यतित्वभ्रंशकगणिकावच्च । सम्यक्श्राद्धधर्ममपि परविस्रम्भाद्यर्थ शिक्षन्ते कुर्वन्ति च कन्यापरिणयनाद्यर्थ बुद्धदासादयोऽनेकेऽप्येवं चक्रुः । स्वामिरञ्जनाद्यर्थं वीरादिवद्गुरुकृतिकर्मादि कुर्वते, उदायिनृपमारकाङ्गारमर्दकादिवत् । परविश्वासाद्यर्थ चारित्रमपि पालयन्ति, साम्प्रतमपि बहवोऽपि दृश्यन्ते स्तैन्यपरद्रोहाद्यार्थिनो विश्वासार्थं जिनाच श्रीगुरुविनयक्रियानुष्ठानादि मायया कुर्वाणाः, तेषां च भाटकघनवदैहिकमात्रमर्थः सिध्यति, अथवा न सोऽपि न तु पारलौकिकः कोऽपि शुभः, वञ्चनादिपापकारिणां नराणां नरकादिगतिस्तु निश्चितैव । यतः - अघमातनुते यदर्थयन्, धनभोगादि न तज्जडोऽश्रुते । यदि वाऽणु चलं च पापजा, इह चामुत्र च यातना ध्रुवाः ॥१॥ एवं कश्चिद्भव्यः श्राद्धादिर्मिथ्यात्वमारम्भादिपापं वा तृणकाष्ठभारसदृशं निःसारमेव मन्यमानः सर्वथाप्यकर्तुका मोऽप्यन्याजीविकाद्ययोगेन निर्वाहाद्यर्थं कुरुते, सोऽप्युत्तमतया शुद्ध एव स्वर्गादिसुखसम्पदं च लभते, मिथ्यात्वे प्राकृत For Private & Personal Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy