Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 427
________________ Jain Education Inte 300 स्तिर्यखो ज्ञेयाः, न तु नराः, ते च नरके उत्कर्षतः पल्योपमासङ्घयेयभागायुषः स्युः । सरीसृपा भुजपरिसर्पा गोधानकुलाद्याः । शेषं स्पष्टम् । उक्तञ्च वाला दाढी पक्खी, जलयर नरगागया उ अइकुरा । जन्ति पुणो नरएसुं, बाहुल्लेणं न उण नियमो ॥ १ ॥ तथा - आहारनिमित्तेणं, मच्छा गच्छन्ति सत्तमिं पुढविं । सच्चित्तो आहारो, न खमो मणसाऽवि | पत्थे ॥ १ ॥ मनसापि सचित्ताहारप्रार्थनया तन्दुलमत्स्यस्यान्तर्मुहूर्तेनापि सप्तमनरकार्जनात् । यथा यथाऽमीषां महान्ति शरीराणि तथा तथा सचित्ताहारवाहुल्यादधिकाधिकनरकदुःखावाप्तिः । देहस्वरूपं सामान्यतोऽप्यागमे यथा|| देवानामुत्कर्षतः कल्पद्विकं यावत् सप्तहस्तप्रमाणो देहस्तत उपरितनकल्पादिषु हीयमानोऽनुत्तरसुरेषु हस्तप्रमाणः । प्रथमे नारके सप्तहस्तमानस्ततो वर्धमानो यावत्सप्तमे पश्चधनुःशतमानः । युग्मिनराणामुत्कर्षत स्त्रिगव्यूतिदेहः – पत्ते अवणसरीरं, अहियं जो अणसहस्सं (स्समाणं) तु । तं वल्लिपउमपमुहं, अओ परं पुढविरूवं तु ॥ १॥ पृथ्व्यादीनां चतुर्णी निगोदानां चाङ्गुला सङ्घयेयभागमात्राणि शरीराणि | बितिचउरिंदिसरीरं, बारसजोअणतिकोसचउकोसं । जोअणसहसपणिंदिय, ओहे वुच्छं विसेसं तु ॥ १॥ वारसजोअण संखो, तिकोस गुम्मी य जोअणं भमरो । मुच्छिमचउपयभुजगुरंग गाऊ धणुजोअणपुहुत्तं ॥२॥ | गन्भचउप्पय छगाऊआई भुअगाऊ अ पहुत्तं । जोअणसहस्समुरगा, मच्छा उभये वि य सहस्सं ॥ ३ ॥ उभयेऽपि गर्भजाः संमूच्छिमाश्च । पक्खिदुग धणुपहुत्तं, सव्वाणंगुलअसंखभाग लहू ॥ इत्यादिशरीर परिपालनाद्यर्थं चाखिलं जगद् यतते । तथाहि - एकेन्द्रिया अपि वयादयो वृत्तिमारोहन्ति, केचित्तु कण्टकैरात्मानं वेष्टयन्ति । इलिकादयः कण्टकसन्नाहं कुर्वते, अशुचिकर्दमादिषु प्रविशन्ति च । कीटिकमक टकादयः सरभसं बिलादि रचयन्ति, कणादीनि च संगृह्णन्ति घुणादयः For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486