________________
Jain Education Inte
300
स्तिर्यखो ज्ञेयाः, न तु नराः, ते च नरके उत्कर्षतः पल्योपमासङ्घयेयभागायुषः स्युः । सरीसृपा भुजपरिसर्पा गोधानकुलाद्याः । शेषं स्पष्टम् । उक्तञ्च वाला दाढी पक्खी, जलयर नरगागया उ अइकुरा । जन्ति पुणो नरएसुं, बाहुल्लेणं न उण नियमो ॥ १ ॥ तथा - आहारनिमित्तेणं, मच्छा गच्छन्ति सत्तमिं पुढविं । सच्चित्तो आहारो, न खमो मणसाऽवि | पत्थे ॥ १ ॥ मनसापि सचित्ताहारप्रार्थनया तन्दुलमत्स्यस्यान्तर्मुहूर्तेनापि सप्तमनरकार्जनात् । यथा यथाऽमीषां महान्ति शरीराणि तथा तथा सचित्ताहारवाहुल्यादधिकाधिकनरकदुःखावाप्तिः । देहस्वरूपं सामान्यतोऽप्यागमे यथा|| देवानामुत्कर्षतः कल्पद्विकं यावत् सप्तहस्तप्रमाणो देहस्तत उपरितनकल्पादिषु हीयमानोऽनुत्तरसुरेषु हस्तप्रमाणः । प्रथमे नारके सप्तहस्तमानस्ततो वर्धमानो यावत्सप्तमे पश्चधनुःशतमानः । युग्मिनराणामुत्कर्षत स्त्रिगव्यूतिदेहः – पत्ते अवणसरीरं, अहियं जो अणसहस्सं (स्समाणं) तु । तं वल्लिपउमपमुहं, अओ परं पुढविरूवं तु ॥ १॥ पृथ्व्यादीनां चतुर्णी निगोदानां चाङ्गुला सङ्घयेयभागमात्राणि शरीराणि | बितिचउरिंदिसरीरं, बारसजोअणतिकोसचउकोसं । जोअणसहसपणिंदिय, ओहे वुच्छं विसेसं तु ॥ १॥ वारसजोअण संखो, तिकोस गुम्मी य जोअणं भमरो । मुच्छिमचउपयभुजगुरंग गाऊ धणुजोअणपुहुत्तं ॥२॥ | गन्भचउप्पय छगाऊआई भुअगाऊ अ पहुत्तं । जोअणसहस्समुरगा, मच्छा उभये वि य सहस्सं ॥ ३ ॥ उभयेऽपि गर्भजाः संमूच्छिमाश्च । पक्खिदुग धणुपहुत्तं, सव्वाणंगुलअसंखभाग लहू ॥ इत्यादिशरीर परिपालनाद्यर्थं चाखिलं जगद् यतते । तथाहि - एकेन्द्रिया अपि वयादयो वृत्तिमारोहन्ति, केचित्तु कण्टकैरात्मानं वेष्टयन्ति । इलिकादयः कण्टकसन्नाहं कुर्वते, अशुचिकर्दमादिषु प्रविशन्ति च । कीटिकमक टकादयः सरभसं बिलादि रचयन्ति, कणादीनि च संगृह्णन्ति घुणादयः
For Private & Personal Use Only
ainelibrary.org