Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
90000060
33990903
Jain Educational
कार्तिकश्रेष्ट्यादयः, आरम्भादिपापे चेटककोणिकनृपयुद्धसारथीभूतवरुणादयश्च । इति मिथ्यात्वारम्भादिपापपुण्ययोस्तृणकाष्ठादिवेष्टिदृष्टान्तेन प्रथमो भेदः १ ॥
अथ कश्चित्तमेव तृणकाष्ठभारं भाटकेन वहति । स च सकाम एव सहर्ष वहति पारं प्रापयति, न च तस्मिन् स्निह्यति न च तं बहुमन्यते, केवलं भाटकमेव बहु मन्यते; एवं कश्चिद्वहुसंसारोऽभव्यो वा केवलमैहिकमे वार्थमिच्छंस्तृणकाष्ठभारसदृशं जैनधर्म निःसारमपि मन्यमानः कुरुते तद्यथा - आरोग्यार्थ समहिमसाधिष्ठायक देवतार्चादिकं करोति, जीरापहयाद्यर्चकविप्रम्लेच्छादिवत् । अश्वार्थ पालकने मिवन्दनवज्जिनगुरुवन्दनाद्यपि तनोति, जिनदास श्रेष्ठयश्वापहारकब्रह्मचारिश्री अभयकुमारनियन्त्रकगणिकाद्वयवत् कूलवालक यतित्वभ्रंशकगणिकावच्च । सम्यक्श्राद्धधर्ममपि परविस्रम्भाद्यर्थ शिक्षन्ते कुर्वन्ति च कन्यापरिणयनाद्यर्थ बुद्धदासादयोऽनेकेऽप्येवं चक्रुः । स्वामिरञ्जनाद्यर्थं वीरादिवद्गुरुकृतिकर्मादि कुर्वते, उदायिनृपमारकाङ्गारमर्दकादिवत् । परविश्वासाद्यर्थ चारित्रमपि पालयन्ति, साम्प्रतमपि बहवोऽपि दृश्यन्ते स्तैन्यपरद्रोहाद्यार्थिनो विश्वासार्थं जिनाच श्रीगुरुविनयक्रियानुष्ठानादि मायया कुर्वाणाः, तेषां च भाटकघनवदैहिकमात्रमर्थः सिध्यति, अथवा न सोऽपि न तु पारलौकिकः कोऽपि शुभः, वञ्चनादिपापकारिणां नराणां नरकादिगतिस्तु निश्चितैव । यतः - अघमातनुते यदर्थयन्, धनभोगादि न तज्जडोऽश्रुते । यदि वाऽणु चलं च पापजा, इह चामुत्र च यातना ध्रुवाः ॥१॥ एवं कश्चिद्भव्यः श्राद्धादिर्मिथ्यात्वमारम्भादिपापं वा तृणकाष्ठभारसदृशं निःसारमेव मन्यमानः सर्वथाप्यकर्तुका मोऽप्यन्याजीविकाद्ययोगेन निर्वाहाद्यर्थं कुरुते, सोऽप्युत्तमतया शुद्ध एव स्वर्गादिसुखसम्पदं च लभते, मिथ्यात्वे प्राकृत
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486