Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर सू० वि०
॥ १९३ ॥
Jain Education Intern
०००
जलं पिबन्ति, खेलन्ति च तस्मिन् करेणुवृन्दपरिवृताः, केवलं जलान्निर्गता अन्तरान्तरा किश्चिद्धू ल्याप्यात्मानं खरण्टयन्ति, पुनस्तथैव शुचिजलदानादिना शोधयन्ति चः एवं केचिज्जीवाः परिणतजिनवचनाः प्रतिपन्नश्राद्धधर्माणः सुविशुद्धदानसप्तक्षेत्रीधनवापादिभिः स्तुतिमुखरीक्रियमाणमार्गणादिगणाः शिष्टलोकप्रशंसापदप्रौढतीर्थयात्रा- ॐ प्रासादप्रतिष्ठादिपुण्यकर्मभिर्नृपादीनामपि माननीयाः स्वयं राजामात्यादय एव वा सम्प्रतिकुमारपालाभयकुमा |रवस्तुपालादिवज्जाग्रदद्भुत पुण्यैर्जगतोऽपि स्तवनीयगुणाः शुद्धसम्यक्त्वाणुत्रतादिप्रतिपालननिरता विशदसामायिकादिषड्विधावश्यक पौषधगुरुदेवसाधर्मि काराधनातपोनियमशीलगुणानुष्ठानेषु स्वकुटुम्ब परिवारादियुताः सदा यतन्ते कायेन, तेष्वेव च रमन्ते मनसा, प्ररूपयन्ते तान्येव वचसापि केवलं निर्वाहार्थं कुलकमागतानिन्द्यद्रव्योपार्जनोपायेषु किञ्चित्सारम्भेष्वपि धूलिखरण्टनसदृशेषु प्रवर्तन्ते, सम्यक्त्वधारिणो वा सप्रत्ययकामिततीर्थोपयाचितमाननादिलौकिक लोकोत्तराल्पमिथ्यात्वातिचारादि सेवन्ते, पुनः प्रतिक्रमणालोचनादिभिः स्वं शोधयन्ति च । ते च इहलोकेऽपि सर्वलोकादिविरुद्ध पश्ञ्चकत्यागादिभिर्लोकप्रिय गुणैश्च सकलजनश्लाघां धर्मानुभावात् प्रवर्धमानसुखसम्पदश्च लभन्ते, | प्रेत्य च द्वादशकल्पावधिसुरसुखानि क्रमादल्पैरेव भवैर्महोदयपदं चाधिगच्छन्ति ५ ॥
अथ च यथा हंसा अगाधेऽतिशुचिन्येव च जले मानससरोवरादौ वसन्ति, खेलन्ति, रतिं कुर्वते, तत्रैव च विशदकमलनालादि शुच्येव भुञ्जते, न च बहिर्निर्गत्य कदाप्यातपादि रजोमलादि च प्राप्नुवन्ति, ते च सर्वपक्षिकुलेषु श्लाघां ल. भन्ते एवं नित्यशुचयः सुखं भुञ्जते; तथा केचिद्भव्यपुरुषा जिनवचनश्रवणाध्ययनादिना कर्मक्षयोपशमाद्वा जनितनिरुप
350090099999
For Private & Personal Use Only
उपदेशर तरंग १०
॥ १९३ ॥
helibrary.org

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486