________________
मुनिसुन्दर सू० वि०
॥ ११७ ॥
Jain Education
॥ अथ पञ्चमस्तरङ्गः ॥ जयसिरिवंछिअसुहए, अणिट्टहरणे तिवग्गसारंमि । इहपरलोगहिअत्थं, सम्मं धम्मंमि उज्जमह ॥१॥ सो पुण बहुहा वुत्तो, लोइअलोउत्तराइभेएहिं । सबुत्तमफलदाणो, जिणधम्मो तेसु पुण सारो ॥ २ ॥ यतः - लहु १ वड्ड २ सार ३ सारा ४, जह रुक्खा अक्क १ दक्ख २ वड ३ चूआ ४ । तह मिच्छ १ सम्म २ किरियाइ दाणजत्ताइआ ३-४ धम्मा ॥ १ ॥
लघुवृद्धपदाभ्यां असारसारपदाभ्यां चतुर्भङ्गी सूचिता । ततश्च लध्वसार १ लघुसार २ वृद्धासार ३ वृद्धसाराश्चतुर्द्धा यथा वृक्षाः, तानेव दृष्टान्तोपदर्शनाय नामत आह— अर्क १ द्राक्षा २ वट ३ चूताः ४, तथा धर्मा अपि चतुर्धा स्युस्तानेव विशेषयति मिच्छेत्यादि, आदिशब्दस्य प्रत्येकं योगात् मिथ्याक्रियादि १ सम्यक्क्रियादि २ मिथ्यादानयात्रादि ३ | सम्यग्दानयात्रादयः ४ । तत्र यथा अर्कद्रुमो लघुः शिशुभिरप्याक्रमणीयत्वादसारश्च तुच्छतरच्छायात्वनखच्छेद्यत्वाखाद्यफलत्वादिभिः, तथा चान्योक्तिवादी -अर्काः ! किं फलसञ्चयेन भवतां किञ्च प्रसूनैर्नवैः, किंवा भूरिलताचयेन ७) महता गोत्रेण किं भूयसा ? । येषामेकतमो बभूव स पुनर्नैवास्ति कश्चित्कुले, च्छायायामुपविश्य यस्य पथिकस्तृप्तिं फलैः कुर्वते ॥ १ ॥ तथा मिथ्याक्रिया सन्ध्यावन्दनस्नानयज्ञवृक्षारोपगोत्रदेव्यादिदेव पूजाजीवादिव लिसप्तशतीपाठ महाभारत| रामायणश्रवणादिका तदादिरूपो धर्मः सर्वेषां सुखासेव्यत्वाल्लघुः असारश्च क्षोदाक्षमत्वात् । तथा च तद्धर्मानुसारिणां
1)
366666606
! (8)
For Private & Personal Use Only
उपदेशर० तरंग ५
॥ ११७ ॥
jainelibrary.org