________________
30000000000 000000
किण्हवालि त्ति-कृष्णवल्ली नागदमनीतिप्रसिद्धा, तस्या रङ्गभावना प्राग्वत्; वेधे घर्षे चूर्णीकरणे च कृष्णरङ्गापरित्यागात् । परमयं विशेषः-दुकूले पूर्व वानसमयादौ कृष्णरङ्गो न स्यात्, पश्चात्तु यथावसरं तादृग्द्रव्यैः कृतो भवति, कृष्णवल्लेस्तु स सहोत्थ एवेति । तथा केषाञ्चिज्जीवानां मिथ्यात्वमहारम्भादिपापरङ्गः सहोत्थो भावनीयः, कालसौकरिकादिवत् ४।
नीली प्रसिद्धा, तद्रलो हि यथा श्यामः पाणिपादाद्युपमर्दादिनाऽधिकाधिक एव भवति, परमपि च स्वसंसर्गादिना मलिनयति, तथा केषाश्चित सम्यग्दृष्टिनृपादिप्रदर्शितभयादिनापि स्वकर्मजनितापदादिभिरपि च स पापरङ्गो न हीयते, का किन्त्वधिकाधिकं वर्धते, श्रीश्रेणिकभापितकालसौकरिकादिवत्, केचिच्च परानपि स्वाभिमतकदुपदेशादिना महामिथ्यात्वादिपरिणामप्रापणादिना महारम्भादिपापकर्मप्रवर्तनादिना च मलिनयन्ति, राजपुरोधःपालकादिवत् । ते चाभव्याः प्रायः सम्भवन्ति । यदुक्तम्-संगमय १ कालसोरिअ २, कविला ३ इंगाल ४ पालया दो वि ६ । एए छच्च अभवा, | उदाइनिवमारओ ७ चेव ॥१॥ पापमतिमन्त्र्यादिवद्रभव्या वा सम्भवन्ति, विषयतृष्णाद्यानित्य बद्धनरकाद्यायुष्का वा सत्यकिविद्याधरादिवदिति । मषीपिण्डादीन्यप्यत्रोदाहरणानि ज्ञेयानि ५। __ कप्पास त्ति-कर्पासोऽप्यत्र कृष्णरङ्गभाग् ज्ञेयः। तद्बीजानि यथा कृष्णरङ्गेण रञ्जयित्वोप्यन्ते, तद्भवश्च कर्पासोऽपि कृष्ण एव स्यात्, तदुद्भवरूतसूत्रवस्त्राद्यपि च कृष्णमेव स्यात् । तथा केचिज्जीवाः प्राग्भवोत्पन्नं मिथ्यात्वादिपापरङ्ग
FEFSEERAGE
Jain Education International
For Private Personel Use Only
Mainelibrary.org