SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 30000000000 000000 किण्हवालि त्ति-कृष्णवल्ली नागदमनीतिप्रसिद्धा, तस्या रङ्गभावना प्राग्वत्; वेधे घर्षे चूर्णीकरणे च कृष्णरङ्गापरित्यागात् । परमयं विशेषः-दुकूले पूर्व वानसमयादौ कृष्णरङ्गो न स्यात्, पश्चात्तु यथावसरं तादृग्द्रव्यैः कृतो भवति, कृष्णवल्लेस्तु स सहोत्थ एवेति । तथा केषाञ्चिज्जीवानां मिथ्यात्वमहारम्भादिपापरङ्गः सहोत्थो भावनीयः, कालसौकरिकादिवत् ४। नीली प्रसिद्धा, तद्रलो हि यथा श्यामः पाणिपादाद्युपमर्दादिनाऽधिकाधिक एव भवति, परमपि च स्वसंसर्गादिना मलिनयति, तथा केषाश्चित सम्यग्दृष्टिनृपादिप्रदर्शितभयादिनापि स्वकर्मजनितापदादिभिरपि च स पापरङ्गो न हीयते, का किन्त्वधिकाधिकं वर्धते, श्रीश्रेणिकभापितकालसौकरिकादिवत्, केचिच्च परानपि स्वाभिमतकदुपदेशादिना महामिथ्यात्वादिपरिणामप्रापणादिना महारम्भादिपापकर्मप्रवर्तनादिना च मलिनयन्ति, राजपुरोधःपालकादिवत् । ते चाभव्याः प्रायः सम्भवन्ति । यदुक्तम्-संगमय १ कालसोरिअ २, कविला ३ इंगाल ४ पालया दो वि ६ । एए छच्च अभवा, | उदाइनिवमारओ ७ चेव ॥१॥ पापमतिमन्त्र्यादिवद्रभव्या वा सम्भवन्ति, विषयतृष्णाद्यानित्य बद्धनरकाद्यायुष्का वा सत्यकिविद्याधरादिवदिति । मषीपिण्डादीन्यप्यत्रोदाहरणानि ज्ञेयानि ५। __ कप्पास त्ति-कर्पासोऽप्यत्र कृष्णरङ्गभाग् ज्ञेयः। तद्बीजानि यथा कृष्णरङ्गेण रञ्जयित्वोप्यन्ते, तद्भवश्च कर्पासोऽपि कृष्ण एव स्यात्, तदुद्भवरूतसूत्रवस्त्राद्यपि च कृष्णमेव स्यात् । तथा केचिज्जीवाः प्राग्भवोत्पन्नं मिथ्यात्वादिपापरङ्ग FEFSEERAGE Jain Education International For Private Personel Use Only Mainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy