________________
हैॐॐ
सू०वि०
उपदेशर० तरंग ५
मरातत्सम्बन्धो यथा-अन्यदा सोमेश्वरयात्रायाः प्रत्यावृत्तः श्रीसिद्धराजो रैवतोपत्यकायां दत्तावासस्तदैव स्वकीर्तनसज्जन
(सज्ज)दण्डनायकनिर्मापितश्रीनेमिप्रासादरूपं दिदृक्षुमत्सरैकपरैः सजलाधारलिङ्गाकारोऽयं गिरिरित्यत्र पदस्पर्शो नाहतीति
कृतकवचनैनिषिद्धस्तत्र पूजां प्रस्थाप्य स्वयं शत्रुञ्जयमहातीर्थसन्निधौ स्कन्धावारं न्यधात् । तत्र पूर्वोक्तैर्जातिपिशुनैः शरैः। ॥ १८२॥ oll
कपाणिकापाणिभिरकपैस्तीर्थमार्गे निषिद्धे श्रीसिद्धाधिपो रजनीमुखे कृतप्राकृतवेषः स्कन्धे विहितविहङ्गिकोभयपक्षन्यस्तजागङ्गोदकपात्रस्तन्मध्ये भूत्वा अपरिज्ञातस्वरूप एव गिरिमधिरुह्य गङ्गोदकेन श्रीयुगादिदेवं स्नपयन् पर्वतसमीपवर्तिग्राम
द्वादशकशासनं श्रीदेवाय विश्राणयामास । तीर्थदर्शनाच्च उन्मुद्रितलोचन इवामृताभिषिक्त इव च जज्ञे । ततोऽत्र पर्वते सल्लकीवनसरित्पूरसङ्कले इहैव वन्ध्यवनं रचयिष्यामीत्यवन्ध्यप्रतिज्ञो हस्तियूथनिष्पत्तये विहस्तमनसं मनोरथेनापि तीर्थविध्वंसपातकिन धिग् मामिति श्रीदेवपादानां पुरतो राजलोकविदितं स्वं निन्दन गिरेरवततार । इति श्रीजयसिंहदेवयात्राप्रबन्धः । अत एव अल्पीभवत्पापरङ्गास्तथाविधपरिणामेन स्वल्पकुकर्मबन्धकाः स्युः, परं स्वकुलजातिगणापवादभयादिना सर्वथा श्राद्धतां नाऽऽददते, ते च भवान्तरे सुलभबोधिका आसन्नसिद्धिकाश्च भवन्तीति ।
दुगुल्ल त्ति-तादृक्कृष्णद्रव्यरागेण रङ्गितं दुकूलं गृह्यते । तद्धि यथा बहुघर्षेऽपि कृष्णदुकूलमेव, स्फाटितत्रोटित. शीर्णजीर्णाद्यवस्था (स्थासु) स्वरङ्गापरित्यागात्। तथा केचिज्जीवा निबिडतममिथ्यात्वा महारम्भादिपापरङ्गास्तदनुसारिक्रियानुष्ठानादिषु प्रवर्तन्ते, सद्गुरूपदेशादिबहुघर्षसम्भवेऽपि स्वपापरङ्गं न त्यजन्ति, श्रीकालकसूर्युपदेशैरपि मिथ्यात्वापरित्यागिदत्तनृपवत् , प्राग्भवभ्रातृचित्रमहर्षिप्रतिबोधैरपि महारम्भात्यागिब्रह्मदत्तवच्च ३ ।
॥१८२॥
Jain Education International
For Private & Personel Use Only
ww.jainelibrary.org