________________
Jain Education
9000599
000000
॥ अथ पञ्चमस्तरङ्गः ॥
अथ प्रस्तावाद् गुञ्जादिरङ्गसमधर्म रङ्गप्रतिपक्षभूतान् पापरङ्गान् किरोलकादिदृष्टान्तैराहइह पुण किरोल १ ह य २, दुगुल ३ तह किण्हवल्लि ४ नीली अ ५ । कप्पास ६ इमे किन्हा, दिहंता पावरंगस्स ॥ १ ॥
किरोलकानि किरोलिकाह्ववल्लीभवानि कृष्णफलानि जने प्रसिद्धानि । तानि हि गुञ्जावत् स्वल्पेनापि घर्षादिना स्वगतां कृष्णतां विहाय धवलतां दर्शयन्ति, तथा केचिज्जीवाः स्वल्पेनापि सदुपदेशादिना वा नमिकरकण्ड्रादिप्रत्येक बुसमुद्रपालादिवच्च मिथ्यात्वादिपरिणामरूपं भवतृष्णादिपरिणामरूपं वा पापरङ्गं त्यजन्ति, धर्मौज्ज्वल्यं च प्रतिपद्यन्ते, ते आसन्न सिद्धिकास्तद्भवसिद्धिका वा भवन्ति ।
किट्ट त्ति - किट्टादिना उपलक्षणान्नीलपत्रादिना वा रङ्गितं वस्त्रम् । तच्च यथा घर्षादिना स्वल्पकृष्णतां धत्ते, परं सर्वथा धवलतां नादत्ते, तथा केsपि मिथ्यात्विन आरम्भपरिणता वा जीवा सुविहितसाधुश्राद्धसंसर्ग सुशास्त्रश्रवणादिघर्षादिना भद्रकीभूता अल्पमिथ्यात्वपरिणामा अल्पारम्भपरिणामा वा किञ्चिज्जिनार्चामुनिदानादिपुण्यमपि कुर्वते, यथा श्रीकुमा| रपालप्राग्भवपञ्चवराटकपुष्पजिनाच कजयताक्षत्रियनवपुष्पी जिनार्च का शोकारामिकमुनि दानदातृसुन्दर श्रेष्ठ यादिवत्, श्रीहे मसूरिसङ्गतिभद्र की भूतश्रीशत्रुञ्जयादितीर्थयात्राश्री उज्जयन्तसिद्धपुरादिजिनप्रासादपुण्य स्वीकार कश्रीजय सिंहदेवनृपवच्च ।
For Private & Personal Use Only
www.jainelibrary.org