________________
मुनिसुन्दर सू० वि०
उपदेश
॥१८१॥
9000000000000000000000
जातिस्मृत्यादिना वा भवान्तरागतं धर्मपरिणामं तद्भवेऽपि भवान्तरेऽपि वा न त्यजन्ति । ते च क्षायिकसम्यग्दृष्टयोऽप्र-16ll कातिपतितक्षायोपशमिकसम्यग्दृष्टयो वाऽप्रतिपतिततत्परिणामा एव देशविरतिं सर्वविरतिं वा प्रतिपद्य “दो वारे विजयाइसु,
गयस्स तिन्नचुए अहव ताई । अइरेग नरभविअं” इतियुक्त्योत्कर्षतोऽपि साधिकषट्पष्टिसागरोपममध्ये एष पञ्चमे सप्तमे पावा भवे सिध्यन्त्येव, प्रायस्तद्भवसिद्धिका एकावतारिण एव वा सम्भवन्ति । एतद्विस्तरश्च भावनापञ्चकोपदेशे रसलोहभा
वनायामिव ज्ञेयः । दृष्टान्ता अपि तद्वदेवातिमुक्तकश्रीवज्रस्वामिश्रीजम्बूस्वाम्यादयो ज्ञेयाः। अत उत्तरोत्तरेषु धर्मरङ्गेषु सर्वशक्त्या शिवपदसुखार्थिभिर्यतितव्यम् ।
अवेत्य धानिति सप्त रङ्गान् , यथोत्तरं तेषु बुधा ! यतध्वम् । समस्ति मोहारिजयश्रिया चेद् , महोदयानन्तसुखे स्पृहा वः ॥ १॥ ॥ इति तपाश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे जयथ्यके मध्याधिकारे द्वितीयेऽशे
धर्मरङ्गस्वरूपनिरूपणश्चतुर्थस्तरङ्गः॥
-
Jain Education Intem
For Private & Personal Use Only
Albelibrary.org