SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ HTTEED TNாரா ध्यानलीनास्तत्रैव तस्थुः। अरुणोदयेऽप्यगच्छतस्तान् दृष्ट्वा हा! मरणमेषां भावीत्यचिन्तयत् श्रेष्ठी । बहुप्रकाशे साधुवेषांस्तान् दृष्टा पुनरचिन्तयत्-आः! पापाः साधुवेषेण चौर्य कुर्वन्तो जिनशासने उड्डाहकृतोऽमी । तानप्याह-भोः! के यूयम् ? विरुद्धं वश्चरित्रं पश्यामि । तेऽप्यूचुस्तव शिष्या वयम् । श्रेष्ठत्यूचे-कथम् ? ततस्ते नमस्कारश्रवणाजातिस्मृत्याद्यूचुः । ततः श्रेष्ठिपृष्टाः स्वप्राग्भवं प्राहुः-विशालायां चत्वारो द्विजपुत्राः, अन्यदा मुनिवचसा प्रतिबुद्धास्तपस्यां गृहीत्वा दिवं जग्मुः, ततोऽत्र नृपकुलेऽवतीर्णास्ते वयं त्वया बोधिताः । श्रेष्ठयचिन्तयत्-अहो ! धन्या एते, यतः स्वल्पेनाप्यबुध्यन्त, अहं त्वाजन्म धर्मश्रवणेऽपि न प्रतिबुद्धः, ततो ममाप्येते गुरवः । ततः सर्वेऽपि दीक्षां गृहीत्वा तद्भव एव सिद्धाः। इति ब्रह्मसेनकथा । ते च प्राय एकावतारिणस्तद्भवसिद्धिकाः, सप्ताष्टभवसिद्धिगामिनो वा भवन्ति । अत्र तद्भवे देवतादत्तचिन्तामणिप्रभावाद् राजप्रबोधकस्य पूर्वभवे चौर्यगृहीतस्वहारमूल्यार्पणकथनमोचितचौरप्रतिबोधकस्य महामात्यस्यापि दृष्टान्तो वाच्यः । महागुरुप्रभृतयो धर्मोपदेशका अभयकुमारादयो महाश्रावकाश्च दृष्टान्ताः प्रसिद्धा एव । __कप्पास त्ति-कर्पास इति सामान्येन निर्देशेऽपि “यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कर्पासे रक्तता यथा" ॥१॥ इत्यादिवचनात् तथाविधप्रसिद्धेश्च देशान्तरेषु केषुचित् कर्पासबीजानि रञ्जयित्वा उप्यन्ते, तद्भवश्च कर्पासोऽपि रक्त एव स्यात् , तदुद्भवं रूतसूत्रवस्त्राद्यपि च रक्तमेव, ईदृशश्च कर्पासोऽत्र गृह्यते । स च यथा प्राग्भवबीजागतपरिकर्मणा रङ्गं भवान्तरसहगरूतसूत्राद्यवस्थायामपि न त्यजति । तथा केचिज्जीवा भवान्तरसंस्कारवशा Pங்கருகருகரு ஒரு उ.३१ । Jan Education International For Private Personel Use Only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy