SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू०वि० उपदेशर० तरंग ४ ॥१८ ॥ 10000000000000000000000 आह-अधुनैव स सुरोऽत्रागत्य मां नत्वा मगृहे स्वर्णवृष्टिं करिष्यति । तावत् स सुरस्तत्रागत्य तथाऽकरोत् , स्वमुपालक्षयत्; भ्रातुरुपकारं चावर्णयत् । ततो दृष्टप्रत्ययो ब्रह्मसेनः पर्वतिथौ पौषधं लाति । क्रमान्निर्धनोऽभूदेवात् । ततः का स्वजनादिमध्ये लजमानः पुरं त्यक्त्वा पल्यामुवास । तत्र व्यवसायाद्धनाढ्योऽभूत् । साध्वादिसामग्र्यभावेऽपि पौषधादिधर्मानुष्ठानं न मुश्चति, पौषधदिने व्यवसायं न करोति; ततो जनैरप्यवगतं तस्य स्वरूपम् । इतश्च केऽपि राज्ञः पुत्राश्चत्वारों दायादकर्षिता नष्वा तत्र पल्यामाययुः । तेऽपि तस्य हट्टे व्यवहरन्ति, स्वदेशमध्ये चौर्यबन्दिग्रहणादि कृत्वा द्युम्नं च पूरयन्ति । ब्रह्मसेनोऽपि सर्व तेषामुद्धारकेऽपि पूरयति । तैरपि ज्ञातं-पर्वदिनेऽसौ व्यवसायं न करोति, मौनव्रतस्थो धर्मध्यानं कुरुते । ततोऽस्य धनवतोऽद्य गृहं मुष्यते, इति चिन्तयित्वा चौर्याय त गृहे प्रविष्टाः, विविधदुकूलस्वर्णादि गृहतस्तान् दृष्ट्वा ब्रह्मसेनोऽचिन्तयत्-एते दुष्टा मम हट्टे व्यवहरन्ति, अहं चैतेषां यथेच्छं पूरयामि, तथाप्यधुना खात्रेण मद्गृहं मुष्यन्तीति । पुनरप्यचिन्ति-हे आत्मन् ! किमार्तध्यानं कुरुषे ? यतः-भवन्त्येके महासत्वा, देहनाशेऽपि नीरुषः। गत्वरद्रव्यनाशेऽपि, तत् किं रे जीव ! कुप्यसि ? ॥ १ ॥ एते गृहीत्वा गृहीत्वा सहस्रादिप्रमाणं द्रव्यं ग्रहीप्यन्ति, पौषधस्तु अनेकस्वर्णकोटिभिरयलभ्यः। ततो यदि कलकलं करोति तदैते तलारर्वध्यन्ते मार्यन्ते च, यदि वा नश्यन्ति तदा नश्यन्तो विराधनां कुर्वन्ति, तदा मे पौषधो विराध्यते । ततो बाढस्वरेण नमस्कारान् गुणयति । चौर-16 श्चिन्तितम्-किमेषोऽस्माकं स्तम्भनार्थ किमपि पठति । ततोऽवहितीभूतैः पञ्चनमस्कारः श्रुतः। ततः क्वापि श्रुतोऽयमि-10 त्यूहापरैर्जातिस्मृत्या पूर्वभवो दृष्टः । ततो वैराग्यात्तदैव देवतार्पितवेषेस्तपस्या प्रतिपेदे । रात्रिचर्यायां दोषं विभाव्य ®®®®®®®00 .. . ना॥१८०॥ Jain Education M a na For Private & Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy