________________
Jain Education
0000
दुकूलादिरङ्गसदृशा ज्ञेयाः । ये चावालकालादपि पूर्वजक्रमेण कुल क्रमागतश्राद्धधर्मेण भाविताः सन्तो यावद्रव्यभावधर्मरङ्गाः स्युस्ते विद्रुमरङ्गसदृशा ज्ञेयाः ५ ।
कुसुंभत्ति—यथा परिकर्मितः कुसुम्भः पादोपमर्दनादिकदर्थनादिभिरपि स्वं रङ्गं न जहाति, किन्त्वधिकाधिकमेव धत्ते, स्वसङ्गिवस्त्राद्यपि रञ्जयति, तथा केचिद्भन्योत्तमाः प्राग्वत् परिणतधर्मरङ्गा विघ्नादिसन्निपातेऽपि धर्मरङ्गं न हापयन्ति, ५) किन्त्वधिकाधिकमेव दधते, परं च स्वसङ्गिनं रञ्जयन्ति, प्रत्यन्तग्रामवासिचौरचतुष्टयप्रति बोध हेतु ब्रह्मसेनश्रावकवत् । तत्कथा यथा— बसन्तपुरे क्षेमङ्करः श्राद्धः बहुसिद्धान्तार्थवित्, अन्यदा पर्वतियो पौषधे गृहीते श्रावकाग्रे धर्म कथयतस्तस्यावधिज्ञानमुत्पेदे, ततो निजभ्रातुराभकस्य पण्मास्यायुर्द्दष्टम् । ततस्तस्य वक्ति-भ्रातः ! प्रत्यहं पौषधमेव गृहाण ।। ॐ पुनः पुनः कथयतस्तस्य पौषधस्थेन ब्रह्मसेनश्राद्धेनोक्तम् — क्षेमङ्कर ! तव भ्राता पुरापि पड्विधावश्यकपर्व पौषधादि कुर्व - न्नस्ति, किं बहुपदिशसि ? । प्रत्यहमित्थं करणेऽस्य कुटुम्बनिर्वाहोऽपि कथम् ?, क्षेमङ्करः प्राह - अस्य षण्मास्येवायुः, तेन पुनः पुनः पुण्योपदेशः । ब्रह्रासेन ऊचे - कथं वेत्सि ?, स आह-अवधिज्ञानेन । ब्रह्मसेनेन पृष्टम् — कदोत्पन्नम् ? क्षेमङ्कर आह- अधुनैव । ततो विस्मितो ब्रह्मसेनोऽचिन्तयत् 'अहो ! धर्मस्य माहात्म्यं यतः श्राद्धानामध्येवं ज्ञानोॐ त्पत्तिः । ततः प्रोचे - पण्मासान्ते त्वद्धातुश्चेन्मरणं भावि तदा पर्वतिथौ नियमात् पौषधं ग्रहीष्ये । मृतः स पण्मासान्ते, क्षेमङ्करः पुनरासन्ने पर्वतिथौ तथैव पौषधं गृहीत्वा धर्ममुपदिशति । ब्रह्मसेनः प्राह - तव किं न शोकः ?, सोऽवकू - शोकः कुतः क्रियते ? यतः स स्वर्गे महान् सुरोऽजनि धर्ममाराध्य । ब्रह्मसेनः प्राह - स्वर्गमने कः प्रत्ययः १, क्षेमङ्कर ।
००००€
For Private & Personal Use Only
www.jainelibrary.org