________________
मुनिसुन्दर सू० वि०
॥ १३० ॥
दोस १ गुणो २ भय ३ णुभयं ४, जह कुजा ओसहं तहा धम्मो । मिच्छत्तं १ अनिआणो २, सनिआणो ३ भावसुनो ४ अ १ ॥
व्याख्या-यथौषधं चतुर्द्धा, तत्र किञ्चिदौषधं रोगिणः केवलं दोषमेव व्याधिप्रकोपरूपं कुरुते, यथा पैत्तिकज्वरार्त्तस्य तदतिरेकात् प्रलपतस्त्रिदोषज्वरभ्रान्त्या वैद्येन प्रयुज्यमानोऽष्टादशक्वाथः । स हि तस्य रोगिणः पित्तमधिकतरं प्रकोपयति, तदाश्रितानि व्याध्यन्तराण्युद्दीपयति, न पुनः कमपि गुणलेशमप्युत्सादयतीति १ । किञ्चित्पुनरौषधं गुणत्ति -गुणमेव व्याध्युपशमरूपं कुरुते, न मनागपि दोषं, यथा त्रिदोषज्वरार्त्तस्याष्टादशक्वाथः, स हि त्रिदोषज्वरं शमयित्वाऽऽरोग्यरूपं ॐ गुणं करोतीति २ । अपरं पुनरौषधं उभयत्ति - उभयं गुणं दोषं च तुल्यमेव करोति यथाऽभिनवपित्तज्वरव्यथितस्य
सशर्कर गोक्षीरौषधम्, तद्धि तस्य रोगिणः किञ्चित्पित्तोत्थदाहोपशमकृत्वाद्गुणं पुनर्दाहाधिक्यश्लेष्माद्युपघातान्तरोत्पत्ति५) हेतुत्वाद्दोषं च करोतीति । यद्वा यथा वातपित्तज्वरार्दितस्य मुस्तापपटक्वाथः, स हि पित्तं प्रशमयति वातं पुनरधिकं प्रकोपयतीति गुणदोषोभयकर इति ३ । अन्यत्पुनरौषधं अणुभयत्ति--उभयं गुणदोषरूपं न उभयं अनुभयं तत्करोतीति; गुणं दोषं वा किमपि न करोतीत्यर्थः । यथा वातपित्तज्वरिणः ससैन्धवजीरकं बीजपूरकं, तद्धि न वातपित्ते शम यति नापि प्रकोपयति समतां सृजतीत्यनुभयकारकमित्यौषधचतुर्भङ्गी ।
000000
॥ अथ तृतीयस्तरङ्गः ॥ अथौषधचतुर्भङ्गदृष्टान्तेन विध्यविधिधर्मविचारमाह
Jain Education International
For Private & Personal Use Only
उपदेशर० तरंग ३
॥ १३० ॥
w.jainelibrary.org