________________
>GOOOOOOOOOTECTOOOடுடு
॥ अथ चतुर्थस्तरङ्गः ॥ पूर्वोक्तभैषज्यचतुर्भङ्गीनिदर्शनेनैव पुनर्भङ्गयन्तरेण धर्मचातुर्विध्यमाह
दोस १ गुणो २ भय ३ णुभयं ४, जह कुज्जा ओसहं तहा धम्मो ।
मिच्छत्तं १ तच्चत्तो २, तम्मीसो ३ भावसुन्नो ४ अ॥१॥ का पूर्वार्द्धव्याख्या प्राग्वत् । उत्तरार्द्धव्याख्यामाह-तथा धर्मोऽपि चतुर्धा क्रमाद्दोष १ गुणं २ उभयम् ३ भनुभयं ४
च करोति । कस्क ? इत्याह-मिच्छत्तंति-मिथ्यात्वं प्राग्वज्झेयम् । तच्चत्तोत्ति-तेन मिथ्यात्वेन त्यक्तः शुद्धसम्यक्त्वा-10 कादिरूपः, स केवलं गुणं मुख्यवृत्त्या कर्मक्षयलक्षणं प्रसङ्गतस्तु चक्रिशक्रादिसम्पलक्षणं च करोति, कार्तिकश्रेष्ठिश्रीश्रेणिक
नृपश्रीकुमारपालादीनामिवेति द्वितीयो भेदः २ । तम्मीसोत्ति-तेन मिथ्यात्वेन मिश्रः कलुषितश्च धर्म उभयं गुणं दोष च प्रणयति यथा नन्दमणिकारस्य, स हि स्वं श्रीवर्द्धमानजिनमुखेन प्रतिपन्नं धर्म कूपारामादिकारणादिमिथ्याकर्मभिः | कलुषीकृत्य स्वकारितवाप्यां दर्दुरत्वं प्राप्तवान् । पानीयहारिणीमुखात् श्रीवर्धमानसमवसरणं श्रुत्वा बोधिं पुनर्लब्धवांश्च । तस्य हि तिर्यगादिप्राप्तिरूपं दोषं पुनर्बोधिलाभरूपं गुणं च स कृतवानिति तृतीयो धर्मभेदः ३। भावशून्यो धर्मः प्राग्वत् ४।
॥ इति चतुर्थस्तरङ्गः॥
00000000000000000000000
Jain Educatior
onal
For Private Personal Use Only
How.jainelibrary.org