Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 379
________________ 200GC0906600000000006 भिमानादिहेतोः शास्त्रशिल्पकलादिपाठादिकृतः “पढइ नडो वेरग्गं" इत्यादिन्यायेन परान् शुद्धादिधर्मोपदेशादिना संवेगादिजननेन रञ्जयन्ति, ते अङ्गारमर्दकादिवदभव्या दूरभव्या वा विषयतृष्णाद्याश्रित्य बद्धनरकायुष्का वा सम्भवन्तीति । गुंज त्ति-गुञ्जा यथा सुष्ठुरङ्गान्वितापि घर्षण स्वल्पेनापि रङ्गं त्यजति, शबलतादिना कुशोभां च लभते; बहिरेवात्यल्पमात्ररङ्गभृत्त्वात् , तथा केचिजीवास्तादृगुपदेशश्रवणसुखदुःखसत्कारधर्मवत्समृद्धिसुसंसर्गादिना किश्चित् परिणतधर्मरङ्गा अपि स्वल्पेनापि सुखदुःखादिना गुरुसङ्घादिबहुमानाप्रदानसप्तक्षेत्र्याद्यर्थकिञ्चिद्रव्यादिमार्गणगुर्वादिकृतधर्मानुष्ठा-15) नादिविषयकर्कशप्रेरणकुसंसर्गादिकारणैश्च सद्यो धर्मरङ्गं त्यजन्ति । आइतधर्मानुष्ठानस्य किञ्चित्त्यागेन शबलतया सर्वत्यागेन वा कुशोभा लभन्ते । ते च भव्या एव, यदि अन्तर्मुहूर्तमपि परिणतसम्यक्त्वास्तदा उत्कर्षतोऽप्यर्धपुद्गलपरावर्तमध्ये क्रियामात्ररुचयस्तु पुद्गलपरावर्तमध्ये सिध्यन्त्येव, पुनर्विशिष्यधर्मसामग्र्याप्तौ स्तोकभवैरिति २। ___ 'पयंगत्ति' सामान्योक्तावपि पतङ्गरक्तं वस्त्रादि ज्ञेयम्। तद्धि यदि संवृत्य गोपितं स्यात्तदैव सुरङ्गतादर्शनेन शोभां धत्ते, व्यापार्यमाणं च घर्षादिना शनैः शनै रङ्गं त्यजति शोभामपि च, रञ्जितं त्वरञ्जितं न भवति, तथा केचिजीवाः सदुपदेशादिना परिणतधर्मरङ्गा देशविरत्यादि प्रतिपन्नाः प्रागुक्तसुखदुःखकुसङ्गादिकारणोपनिपातं विना तथैव तद्रङ्गेण धर्मानुष्ठानादिना दीप्यन्ते, सर्वधर्मकार्येषु धुरन्धरतां दधानाः सामग्र्यभावसुखदुःखादिप्रागुक्तकारणोपनिपाते च शनैः शनैधमरङ्गं सर्वधर्मकार्यधौरेयतां सद्धर्मानुष्ठानादिशिथिलतया श्राद्धशोभांच त्यजन्ति, परं श्राद्धसमुदायमिलनयाहक्कादृक्क्रिया 000000000000000 Jain Education in For Private & Personel Use Only HISainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486