________________
200GC0906600000000006
भिमानादिहेतोः शास्त्रशिल्पकलादिपाठादिकृतः “पढइ नडो वेरग्गं" इत्यादिन्यायेन परान् शुद्धादिधर्मोपदेशादिना संवेगादिजननेन रञ्जयन्ति, ते अङ्गारमर्दकादिवदभव्या दूरभव्या वा विषयतृष्णाद्याश्रित्य बद्धनरकायुष्का वा सम्भवन्तीति ।
गुंज त्ति-गुञ्जा यथा सुष्ठुरङ्गान्वितापि घर्षण स्वल्पेनापि रङ्गं त्यजति, शबलतादिना कुशोभां च लभते; बहिरेवात्यल्पमात्ररङ्गभृत्त्वात् , तथा केचिजीवास्तादृगुपदेशश्रवणसुखदुःखसत्कारधर्मवत्समृद्धिसुसंसर्गादिना किश्चित् परिणतधर्मरङ्गा अपि स्वल्पेनापि सुखदुःखादिना गुरुसङ्घादिबहुमानाप्रदानसप्तक्षेत्र्याद्यर्थकिञ्चिद्रव्यादिमार्गणगुर्वादिकृतधर्मानुष्ठा-15) नादिविषयकर्कशप्रेरणकुसंसर्गादिकारणैश्च सद्यो धर्मरङ्गं त्यजन्ति । आइतधर्मानुष्ठानस्य किञ्चित्त्यागेन शबलतया सर्वत्यागेन वा कुशोभा लभन्ते । ते च भव्या एव, यदि अन्तर्मुहूर्तमपि परिणतसम्यक्त्वास्तदा उत्कर्षतोऽप्यर्धपुद्गलपरावर्तमध्ये क्रियामात्ररुचयस्तु पुद्गलपरावर्तमध्ये सिध्यन्त्येव, पुनर्विशिष्यधर्मसामग्र्याप्तौ स्तोकभवैरिति २। ___ 'पयंगत्ति' सामान्योक्तावपि पतङ्गरक्तं वस्त्रादि ज्ञेयम्। तद्धि यदि संवृत्य गोपितं स्यात्तदैव सुरङ्गतादर्शनेन शोभां धत्ते, व्यापार्यमाणं च घर्षादिना शनैः शनै रङ्गं त्यजति शोभामपि च, रञ्जितं त्वरञ्जितं न भवति, तथा केचिजीवाः सदुपदेशादिना परिणतधर्मरङ्गा देशविरत्यादि प्रतिपन्नाः प्रागुक्तसुखदुःखकुसङ्गादिकारणोपनिपातं विना तथैव तद्रङ्गेण धर्मानुष्ठानादिना दीप्यन्ते, सर्वधर्मकार्येषु धुरन्धरतां दधानाः सामग्र्यभावसुखदुःखादिप्रागुक्तकारणोपनिपाते च शनैः शनैधमरङ्गं सर्वधर्मकार्यधौरेयतां सद्धर्मानुष्ठानादिशिथिलतया श्राद्धशोभांच त्यजन्ति, परं श्राद्धसमुदायमिलनयाहक्कादृक्क्रिया
000000000000000
Jain Education in
For Private & Personel Use Only
HISainelibrary.org