SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर० तरंग ४ 10000000000000000000 ॥ अथ चतुर्थस्तरङ्गः॥ 2 अथ "सुधम्मरंगिल्ल त्ति" पदव्याख्या-शोभने-श्रीवीतरागप्रणीते श्रीसम्यक्त्वदयादिगुणविशिष्टे मनोवाक्कायविशुद्ध्या विधिना वा क्रियमाणे धर्मे रङ्गोऽस्यास्तीति वाक्ये इलप्रत्ययः। यो हि जिनवचनभावितः स्यात् स पापाद् भीरुरेव, पापभीरुश्च श्रीजिनधर्मे रङ्गवानिति सम्बन्धः । स च सिद्धिगामी भवत्येव, परं जीवा बहुविधा दूरभव्यत्वादिभेदैः,तेन धर्मरङ्गा अपि शिवप्राप्तिकारणभूता बहुधा भवन्ति इति तानेवोपदेशगाथया प्राह चुण्ण य १ गुंज २ पयंगा ३, चोलय ४ विहम ५ कुसुंभ६कप्पासा। जीवाण धम्मरंगे, दिटुंता भाविसिववसओ ॥१॥ | धम्म प्ति, सामान्योक्तावपि प्रस्तावाजिनधर्मरङ्गे चूर्णकादयः सप्त दृष्टान्ता जीवानां भाविशिवदूरत्वादूरत्वाद्यनुसारेण भवन्ति । तत्र रङ्गः शुभोऽशुभो वा जीवस्य मनःपरिणामविशेष एव । परं स्वानुरूपबहिरनुष्ठानादिना तटस्थैरपि गम्य-10 तया बहिवृत्त्या निर्देश्यत्वेन बाह्यतया प्रतिभासमानो रङ्गव्यपदेशं लभते इति भावनातो विशेषः । अत्र च रङ्गशब्दो धर्मादिविषयमनःपरिणामविशेषेऽर्थे नाममालादौ न दृश्यते, तथाप्यत्र प्रयुक्त उपदेशवचनेषु लोकप्रसिद्धेरेव प्रामाण्यात्। का अथैते विस्तरतो भाव्यन्ते-तत्र चुण्ण त्ति, यथा चूर्णकणा रक्ततामाश्रित्य स्वयमरगा अपि ताम्बूलादिमिलिताः परान् मुख-15 दन्तादीन् रञ्जयन्ति, एवं केचित् स्वयं महामिथ्यात्वमहारम्भसंसारतृष्णादिभिर्धर्मरङ्गविकला अपि पूजामहत्त्वाजीविका OOOOOாருGைOPO 000004 ॥१७८॥ अथैते विस्तरता भारणामविशेषेऽर्थे नाममालामासमानो रङ्गव्यपदेशं लभार स्वानुरूपबहिरनुष्ठानारित्वादूरत्वा anEdications For Private Personal use only w .jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy