________________
॥ अथ द्वितीयस्तरङ्गः ॥ अथ धर्मस्य दुर्लभत्वं प्रतिपाद्य नरभवे तद्विषयोद्यमाय तदनुद्यमे बहुहानि प्रतिपादयन् उपदेशगाथामाहरयणायरंमि पत्ता, रयणग्गहणे पमत्तअपमत्ता। जह बहु अलाभलाभे, लहंति इय नरभवे धम्मे ॥१॥ एतदेव विस्तार्यते
देवा तण १ फल २ चंदण ३ रयणायरगयपमत्तअपमत्ता ।
अणु १ बहु २ वहुतर ३ बहुतम ४ विहा गइगय ४ जिआ धम्मे ॥१॥ अस्य व्याख्या-दैवात् देवतानियोगात् , आयरेतिशब्दस्य प्रत्येकं योजनात् तृणाकर १ फलाकर २ चन्दनाकर ३ रत्नाकर ४ गता यथेति नरा इति चाध्याहारात् यथा नराः प्रमत्ता अप्रमत्ताश्च स्वस्थानप्राप्ता आकरक्रमेणाणु १ बहु २ बहुतर ३ बहुतम ४ सुख लाभा भवन्ति, इत्यमुना प्रकारेण गइगय जिअत्ति-नारका १ मर २ तिर्यग् ३ नर ४ गतिचतुष्टयगता जीवा धर्मे प्रमत्ता अप्रमत्ताश्च भवान्तरे प्राप्ता उक्तगतिक्रमेणाल्प १ बहु २ बहुतर ३ बहुतम ४ विभागा
भवन्ति । विभागः सुखफलगतो विशेषः, स चाकरचतुष्के क्रमादकैकस्मिन्नाकरे प्रमत्ताप्रमत्तयो यः । गय इत्यत्र विभशक्तिलोपः प्राकृतत्वादित्यक्षरार्थयोजना।
अथास्या गाथाया विस्तरतो भावना-कस्मिंश्चित्पुरे नाम्ना सर्वाकरपत्तने केऽपि यक्षा देवाश्चत्वारस्तृणाद्याकराधि
an Education
For Private
Personel Use Only
ISr.jainelibrary.org