Book Title: Tarkatarangini Author(s): Gunratna, Vasant G Parikh Publisher: L D Indology AhmedabadPage 81
________________ तर्कतरङ्गिणी न च संयोगसम्बन्धेन व्यापकत्वं ग्राह्यम्, तथा च संयोगसम्बन्धेन यद्घटस्याधिकरणं चक्रादिकं तद्रूपाधिकरणे चक्रादिरूपेऽधिकरणे योत्यन्ताभावो गुणत्वादीनां तत्प्रतियोगितानवच्छेदकं दण्डत्वं भवत्वेवेति वाच्यम् । यद्यपि संयोगसम्बन्धेन घटधिकरणे चक्रे दण्डात्यन्ताभावो नास्ति, तथापि घटधिकरणे 'स्थलविशेषे-गृहादौ दण्डात्यन्ताभावस्य विद्यमानत्वात् । कथं दण्डत्वस्यानवच्छेदकत्वम् ? समवायसम्बन्धेन दण्डस्य संयोगसम्बन्धेन घटधिकरणे चक्रेऽभावाच्चेति संयोगसम्बन्धेनैव दण्डस्याप्यभावो ग्राह्यः । तेन पूर्वोक्तदोषो घटधिकरणे गृहादावित्यादिरेव दोषः । तथा च दण्डस्य घटं प्रति व्यापकत्वाभावात् नियतत्वं नास्तीति नित्वा भावात्कारणत्वमपि वक्तुं न शक्यते, इति घट प्रति दण्डस्य कारणत्वं वक्तुमशक्यम् । अत्राहुः प्राचीना:-अत्र दण्डघट्यो कार्यकारणभावस्थले कालिक्येव व्याप्तिाह्या । यथा यदा घटः तदा तत्पूर्वमवश्यं दण्ड:-इतिरूपा । तथा च पूर्वोक्तो दोषो नास्ति । पूर्वोक्तदोषस्तु दैशिकी व्याप्तिमादायोक्तः । तदपि न, व्यापकव्यापकभावे दैशिकी व्याप्तिस्त्वश्यं वाच्यैव कार्यकारणरूपा। ननु-यदा घटस्तत्पूर्वमवश्यं दण्ड:-इत्यादिरूपा कालिकी व्याप्तिरेव यदि गृह्यते तदा दण्डो यदा वने वर्तते तदाऽस्मिन्नधिकरणे घटोत्पत्तिः कुतो न जायते, कारणे सति कार्यस्योत्पत्तिसम्भवात् । तथा च दैशिकसम्बन्धेन दण्डघट्योः सामानाधिकरण्यमवश्यमपेक्ष्यते, यथा यदा यत्र घटस्तदा तत्र दण्ड इत्यवश्यं वक्तव्यमिति चेत्, न । अधिकरणान्तरे घटसत्त्वेऽपि दण्डाभावाद् व्यभिचारः ।। ___ न च यत्रोत्पत्तिकालावच्छिन्नो घटस्तत्रावश्यं दण्ड इति वाच्यम् । उत्पत्तिकालेऽपि यदा चक्रे दण्डेन भ्रमिरुत्पादिता, तदनन्तरक्षण एव दैववशात् दण्डनाशो जातः । तदनन्तरं कपालद्वसंयोगो जातस्तदनन्तरं घटोत्पत्तिः, तेन घटोत्पत्तिसमये उत्पत्तिकालावच्छिन्नो घटश्चक्रे तिष्ठति । तत्र दण्डाभावात् व्यभिचारं एवेति । न च समवायसम्बन्धेन यत्र घटस्तत्र दण्डजन्यसंयोगजन्यक्रियाजन्यकपालद्वय संयोगाश्रयत्वसम्बन्धेन दण्ड इति । दण्डजन्यो यो संयोगश्चक्रेण सममभिघाताख्यो नोदनाख्यो वा तज्जन्या या क्रिया चक्रनिष्ठा, तया जन्यो यो कपालद्वसंयोगः, तदाश्रयत्वं-सम्बन्धे कपालेऽनेन सम्बन्धेन-यथा घटः समवायसम्बन्धेन तिष्ठति तथा दण्डोऽपि कपाले तिष्ठतीत्यर्थः । तथा च न व्यभिचार इति वाच्यम् । गौरवादेतादृशसम्बन्धकल्पने प्रमाणाभावाच्चेति । दण्डघट्योः कार्यकारणभावो दुनिख्य इति । अत्र नव्याः पक्षधरशिरोमण्यादयः “समादधिरे-कारणत्वं स्वरूपसम्बन्धविशेषः । अति रिक्तपदर्था वेति । तथा च घटनिष्ठकार्यतानिरूपितकारणत्वं दण्डादीनां स्वरूपसम्बन्धविशेषः । अथवा १. B omits स्थलविशेषे. २. B omits इति. ३. B प्रतिघटं प्रति. ४. B वक्तुमयुक्तम् । ५. B omits कार्यकारणरूपा. ६. A omits नन. ७. B -स्मिन्करणे-.८. B omits समादधिरे. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306