Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 279
________________ २३८ तर्कतरङ्गिणी खण्डवाक्यार्थज्ञानजननाभावात् । एवमिति अवयवस्यावयवे वयादिप्रतिपादकादिरूपे वह्निपदादिरूपे नातिव्याप्तिः । द्वावयवादौ च नातिव्याप्तिः । अत्र शङ्कते-अवयवावयवेति । तथा 'चावयवायवयवेऽवयवलक्षणं पूर्वकृतमितिव्याप्तमेवेत्यर्थः । समाधत्ते-अन्वयाप्रतियोगित्वस्येति । पूर्वोक्तलक्षणे खण्डवाक्यार्थस्य योऽन्वयस्तस्याप्रतियोगित्वं-सतीति विशेषणं देयम् । तथा च खण्डवाक्यार्थान्वयप्रतियोगित्वे सति महावाक्यार्थान्वयप्रतियोगिबोधकवाक्यत्व मवयवत्वमित्यर्थः । सत्यन्तं चावयवेऽतिव्याप्तिवारणार्थम् । विशेषदलानुपादाने महावाक्यार्थेऽतिव्याप्तिः । तस्य च न्यायत्वात् । एतदेव विशदयति अवयवेति अवयवस्य योऽवयवो वयादिपदरूपो स महावाक्यार्थप्रतियोगी । यः खण्डवाक्यार्थस्तत्प्रतियोगी भवत्यवयवावयवः । तथा चावयवावयवे खण्डवाक्यार्थान्वयप्रतियोगिबोधकत्वाभावान्नतिव्याप्तिरिति भावः । न चेति तथा च यद्वाक्यं न्यायान्तर्गतं न भवति किन्तु न्यायबहिर्भूतम्, यथा केनचिद्वातुलेन प्रमादादुक्तं वह्निमान् धूमादितिरूपम्, तत्रापि महावाक्यार्थान्वयप्रतियोगि-प्रतिपादकमस्त्येवेत्यतिव्याप्तिरित्याशङ्कार्थः । समाधत्ते पदसमुदायेति च न्यायबहिर्भूते न्यायैकदेशत्वाभावान्नातिव्याप्तिरिति भावः । अवयवलक्षणस्य निष्कर्ष करोति-तथा चेति न्यायस्य ये एवंविधाः एकदेशाः ते कीदृशाः? न्यायजन्यो यो बोधः, यथा वह्निमानित्यारभ्य वह्निव्याप्यधूमवानयमित्यन्तस्तस्य विषयीभूतो योऽन्वयस्तस्याप्रतियोगी यो वाक्यार्थोऽथ चान्वयप्रतियोगी भवति अर्थात् खण्डवाक्यार्थान्वयप्रतियोगी भवति यो पदार्थः, तस्यार्थबोधकतापर्याप्त्याधारास्तेऽवयवा इत्यर्थः । तथा च न्यायजन(न्य) 'बोधविषयान्वयप्रतियोगिपदं न्यायबहिर्भूते वाक्येऽतिव्याप्तिवारणार्थम्, अवयववावयवेऽतिव्याप्तिवारणार्थं च । अन्वयप्रतियोगिखण्डवाक्यार्थबोधकतापर्याप्त्याधारत्वमवयवे नास्ति । तस्यावयवन्यायजन्यबोधविषयान्वयस्य संपूर्ण खण्डवाक्यार्थबोधकता नास्तीति न तत्रातिव्याप्तिः । न्यायैकविशेषपदं विशेष्यं न्यायरूपसम्पूर्णमहावाक्येऽतिव्याप्तिवारणार्थम् । (२) प्रतिज्ञा । "प्रतिज्ञालक्षणे शङ्कते-नन्विति तथा च न्यायबहिरर्थे "प्रतिज्ञासमानाकारार्थे "वाक्ये वातक्यादिनोक्तेऽतिव्याप्तिः । तस्याः च न्यायबहिर्भूतत्वात् । उदाहरणैकदेशे इति यो धूमवान् सोऽग्निमानिति संपूर्णमुदाहरणम् । तस्यैकदेशो भवति वह्निमानितिरूपः, तस्यापि न्यायान्तर्गतत्वादिति १. B चोभयावयवे. २-३. B लक्षणखण्डवाक्यार्थप्रतियोगित्वस्य यो.. ४. B -त्वमित्यर्थः । ५. B -दिरूपो. ६. B -प्रतियोग्यबो.. ७. B -वयप्रतिपादकप्रतियोगि-८. B बोधि. ९. B-वयवावयवस्य १०. B प्रतिज्ञानल. ११. B प्रतिज्ञानस. १२. B omits वाक्ये. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306