Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
________________
तर्कतरङ्गिणी
२५५ [II] असिद्धः ।
असिद्धलक्षणमाह-व्याप्तस्येति अजातदोषत्वादिति तथा च तस्यैव हेत्वाभासत्वं यस्य ज्ञानेनानुमितिः प्रतिबध्यते । तेन ज्ञातो दोष: हेत्वाभासः । प्रकृते चासिद्धे ज्ञातदोषत्वं नास्ति । कथम्? यदा व्याप्तिविशिष्टपक्षधर्मताज्ञानं तिष्ठति तदाऽनुमितिर्जायते । यदा चेदं नास्ति तदा कारणाभावादेव नानुमितिरिति व्याप्तस्य पक्षधर्मत्वाभाव एवानुमितिप्रतिबन्धकः, न तु तद्ज्ञाानमपि कारणत्वाभावादेव। यथा कुलालादिसामग्रीसत्त्वे दण्डाभावे घटोत्पत्तिर्न जायते । कारणाभावादेव । तद्विशेषणत्वादिति असिद्धिरपि हेत्वाभास एव । तथा 'चैतस्यानुमितिप्रतिबन्धकज्ञानविषयत्वाभावात् हेत्वाभासत्वं कथं वाच्यमित्यर्थः।
लिङ्गपरामर्शाभावेति तथा च यदि लिङ्गपरामर्श एवासिद्धः-इत्युच्यते तदा सद्धेतावप्यतिव्याप्तिः। यत्र व्यासङ्गस्याव्याप्तिज्ञाने विद्यमानेऽपि वह्निसाध्यकधूमलिङ्गकः पर्वतपक्षक: परामर्शो न जातस्तत्रापि वह्निव्याप्यधूमवानयमिति परामर्शाभावेन धूमस्याप्यसिद्धत्वं स्यात् । तत्सत्त्वे इति यथा हृदो वह्निमान् धूमादित्यत्र व्याप्तिज्ञानानन्तरं दैववशात् परामर्शो जातः । यथा वह्निव्याप्यधूम-वानयमिति, तत्र धूमस्याप्यसिद्धत्वं न स्यात् । कथम् ? यतस्तत्र वह्निसाध्यकः धूमलिङ्गकः हृदपक्षक: परामर्शसत्त्वेन परामर्शाभावो नास्तीत्यसिद्धस्याप्यसिद्धहेत्वाभासत्वं न स्यात् । असतोऽपीति वस्तुगत्या यो हेतु: स्वरूपासिद्धो भवति, पक्षे हेतु न भवतीति तावत् तस्याप्यासिद्धरूपहेत्वाभासत्वाभावापत्तिः ।
समर्थयति-तथापीति लिङ्गेति लिङ्गपरामर्शस्य यो विषयस्तस्याभावः, स एवासिद्ध इत्यर्थः। हृदो वह्निमानित्यत्र लिङ्गपरामर्शस्य विषयीभूतो यो धूमस्तत्र हृदे तदभावस्य सत्त्वात् । तथा चायमसिद्धस्तत्रास्त्येव नाति व्याप्तिरित्यर्थः । तद्विषयश्चेति लिङ्गपरामर्श विषयो हि एका व्याप्तिः । अथ च पक्षतावच्छेदकं पक्षे हेतुमता च । तथा च पूर्वोक्तोदाहरणे पक्षे हेतुमत्त्वाभावात् तत्र धूमस्यासिद्धत्वमित्यर्थः । पक्षतावच्छेदकासत्त्वोदाहरणं च ‘काञ्चनमयः पर्वतो वह्निमान्, धूमादित्यत्र परामर्शविषयीभूतम् । यतः पक्षतावच्छेदककाञ्चनमयत्वं यत्र पर्वतरूपे पक्षे नास्तीति पक्षतावच्छेदकरूपविषयाभावादसिद्धः । तथा च यत्र पक्षतावच्छेदकत्वेनाभिमतो यो धर्मः, स यत्र नास्ति, सोऽप्याश्रयासिद्धः । यत्र च व्याप्ति स्ति, सः व्याप्यत्वासिद्धः । अथ च यत्र हेतुमत्ता नास्ति पक्षे स "स्वरूपासिद्ध इति भेदभावः ।
___ व्याप्यत्वासिद्धः यथा 'यद् सत् तत्क्षणिकम्'-इत्यत्र सत्त्वं भवति हेतुः, तत्र हेतौ परामर्शविषयीभूता या व्याप्तिः, सा नास्तीत्यं व्याप्यत्वासिद्धः । नन्वयं कथं व्याप्यत्वासिद्ध एव? १. B -बन्धकाज्ञान.. २. B तत्र. ३. A यावत्. ४. B विषयः स एवा.. ५. B omits स्व. ६. B परामर्शभूता. ७. B त्वासिद्धः । एतस्य च.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306