Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
________________
२५६
तर्कतरङ्गिणी तस्य च घटादौ व्यभिचारित्वादिति । तथा धर्मसङ्करो वृत्तः । यथैको धर्मो भवति व्यभिचारित्वम्, द्वितीयो भवति व्याप्यत्वासिद्धत्वमिति ।।
हेत्वाभासानामिति तथा च हेत्वाभासानां परस्परं धर्मसङ्करो-व्यभिचारित्वादि सङ्करो न दोषाय भवति । सर्वत्रैव परस्परं सङ्करात् । यथा विरुद्धव्यभिचारित्वं स्वरूपासिद्धत्वं विरुद्धत्वं च व्याप्यत्वासिद्धं च तिष्ठति । 'यथेयं गौरश्वत्वात्'-इत्यत्र व्यभिचारित्वम्, यथा गोत्वात्यन्ताभावववृत्तित्वमश्वत्वे तिष्ठति ।
एवं स्वरूपासिद्धत्वमपि पक्षे-गोलक्षणेऽश्वत्वस्याभावात् स्वरूपासिद्धत्वम् । एवं विरुद्धत्वं समानाधिकरणत्वं तिष्ठति । एवं व्याप्यत्वासिद्धत्वमपि अश्वत्वे हेतौ गोत्वरूपसाध्यसमानाधिकरणत्वा भावादेवेति व्याप्ति हि साध्यसामानाधिकरण्यघटिता हेतोः । इत्येवं धर्मसङ्करो हेत्वाभासानां दोषाय न। 'यदा यस्य ज्ञानं पूर्वमेवानुमिति प्रतिबध्नाति तत्र स एव हेत्वाभासः । यदा च बहूनां ज्ञानसमूहालम्बनात्मकमनुमिति प्रतिबध्नाति तदा तेषामेव हेत्वाभासत्वम् । परमयं विशेषः - यदा प्रथमत एकधर्मस्य व्यभिचारित्वादे निं यामनुमिति प्रतिबध्नाति, तत्र तेनान्यस्य विरुद्धादेरपेक्षा क्रियते । एवं नास्ति । स्वातन्त्र्येण पुरः स्फुर्तिकस्यैवानुमितिप्रतिबन्धकत्वात् । इति मनसि कृत्वाऽऽहनहीति सुगमं प्रायः ॥
___ असाधकताऽनुमानं यथा-धूमवान् वढेरित्यत्र वह्निधूमासाधकः, धूमाभाववद्वृत्तित्वादिति । एवमन्यत्रापि बोध्यम् । सार्यस्थले पुरस्फुर्तिक एव साधकतायां प्रयोज्य इति भावः । यदीति 'इयं गौरश्वत्वाद्' इत्यत्र विरुद्धत्वेनायं हेतुः शास्त्रेष्वेव क्रियते । अत्र यद्यपि व्यभिचारित्वमप्यस्ति तथापि व्यवहार एव विरुद्धोऽयं हेत्वाभास इत्यर्थः । स इतीति-तथा च सतीति - यद्वर्तते मूले तदने 'य' इति पूरयित्वा फक्किका पठनीया ।
व्यभिचारव्यवहारेति - तथा च व्यभिचारस्य यो व्यवहारस्तस्य प्रयोजकीभूतः प्रवर्तकीभूत: यथाऽनैकान्तिक एवायं व्यभिचारीति हेत्वाभास इति व्यवहारोऽनैकान्तिके साध्यात्यन्ताभाववद्गामित्वरूपे एव जायते इत्यर्थः । पूरणीयमिति ये दोषाः उक्ताः, तेऽनेकान्तिकादय इति पूरणीयम्। असिद्धपदेनेति अत्रासिद्धिपदेनैकाऽसिद्धिः व्याप्यत्वासिद्धिराश्रयासिद्धि र्वा ग्राह्या । तत् आदिपदेन तदितरयोः संग्रह इत्यर्थः । अन्यथा 'आदि-पदं' व्यर्थमेव स्यात् ।।
एवं चेति अयमाश्रयासिद्धिः पृथगृपेण पक्षावृत्तित्वेन रूपेण व्यभिचारादित्यपि व्यभिचारादीनामनेन रूपेण हेत्वाभासत्वं नास्तीति भावः ।
गगनीयत्वमिति तथा च गगनीयत्वमपि विशिष्टं यद्यरविन्दं तस्य पक्षत्वम् । तत्र पक्षो १. A तद्यदा. २. B -नुमितं. ३. B असाधारकताऽ..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306