Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
________________
२५४
तर्कतरङ्गिणी असिद्धे यथा-'गगनारविन्दं सुरभि, अरविन्दत्वाद्' इत्यत्र पक्षस्यासिद्धित्वज्ञानमनुमिति प्रति प्रतिबन्धकत्वम् । तद्विषयत्वं चासिद्धे तिष्ठति । एवं व्याप्यत्वासिद्धावपि ।
एवं सत्प्रतिपक्षे-यथा'शब्दो नित्यः, अस्मदाद्यात्मनः विभुविशेषगुणत्वात्, ईश्वरज्ञानवद्'इत्यत्र सत्प्रतिपक्षो भवति । 'शब्दोऽनित्यः, जातिमत्त्वे सत्यस्मदादिबहिरिन्द्रियग्राह्यत्वात् घटवद्'इत्यत्रानुमानेन नित्यत्वानुमितिः प्रतिबध्यते । न च पूर्वोक्तेनानित्यत्वानुमितिः प्रतिबध्यते इति, द्वयोरनुमितिप्रतिबन्धकज्ञाने विषयत्वं तिष्ठतीति सत्प्रतिपक्षस्य हेत्वाभासत्वम् । एवं बाधे पर्वतो वढ्यभाववानिति ज्ञाने वृत्ते, पर्वतो वह्निमानित्यनुमिति[प्रति] बन्धक ज्ञानविषयत्वं वाच्यमिति हेत्वाभासत्वम् । एवं हेत्वाभासविशेषेऽपि लक्षणं बोध्यम् ।
कण्टकमुद्धरति-न चेति तथा च यथा श्रुते उपाधावेवातिव्याप्तिः । तस्योपाधिज्ञानस्यानुमितिप्रतिबन्धकत्वं परंपरया यद्यपि वर्तते तथापि स्वान्यद्वाराऽनपेक्षत्वं तस्य नास्ति । किन्तु व्यभिचारद्धारैव ।
एतदेवाह-उपाधिज्ञानस्येति न चेति तथा च साध्येऽतिव्याप्तिः । गौरवे चातिव्यातिः । साध्यस्याप्यनुमिति प्रति प्रतिबन्धकत्वमस्ति । यतः साध्यज्ञानस्य पक्षीयसाध्यनिश्चयस्यानुमिति प्रति प्रतिबन्धकत्वात् । तथा च तद्विषयकज्ञानविषयत्वात्, गौरवज्ञानस्याप्यनुमितिप्रतिबन्धकत्वात् ।
समाधत्ते-पक्षतास्थलेति यत्र साध्यनिश्चयस्तत्रापि साध्यविषयानुमितेर्जायमानत्वात् । तथा च सर्वत्रानुमिति प्रति साध्यनिश्चयस्य प्रतिबन्धकत्वं नास्ति । गौरवज्ञानमपि प्रामाणिकं न प्रतिबन्धकमिति न तत्रातिव्याप्तिः ।
मतुबिति अन्यथा यथाश्रुते सिद्धे हेतावतिव्याप्तिर्भवति । यथा धूमाभाववद्वृत्तिरिति, वयालोकाविति समूहालम्बनस्यापि धूमनिरूपितव्याप्तिज्ञानं प्रति प्रतिबन्धकत्वं वर्तते । तद्विषयत्वं यथा वह्नौ तिष्ठति तथाऽऽलोकेऽपि तिष्ठतीति आलोकेऽतिव्याप्तिः । तस्याप्यनुमितिप्रतिबन्धक-ज्ञानविषयत्वस्य सत्त्वात् । यतः प्रतिबन्धकज्ञानविषयो भवति व्यभिचारः । तद्वत्त्वादालोक-स्येत्याशङ्कार्थः ।
न चेति तथा च यत्र वस्तुगत्या व्यभिचारित्वं वर्तते तस्यैव लक्षणं हेत्वाभासस्य प्रसक्तम्। पूर्वोक्ते च समूहालम्बनात्मकं ज्ञानविषयत्वं यद्यपि दुष्टं तिष्ठति तथापि व्यभिचारित्वं तत्र नास्ति । यतस्तत्रालोके वह्यभाववद्वृत्तिरूपो दोषः, स च तत्र नास्तीति न तत्रातिव्याप्ति । हेतुत्वाभिमते इति तथा चं धूमवान् वह्नरित्यत्र हेतुत्वाभिमतो भवति वह्निर्न चालोके-इत्यालोके हेतुत्वाभिमताभावान्नानिव्याप्तिः ।
१. A -दाद्यात्मन्यविभु.. २. B omits च.
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306