Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
________________
२५७
तर्कतरङ्गिणी भवत्यरविन्दम्, गगनीयत्वं च पक्षतावच्छेदकत्वम् । तथा च पक्षे पक्षतावच्छेदकत्वाभावात् तदवच्छिन्नपक्षाप्रसिद्ध्या, आश्रयासिद्ध इत्यर्थः । अत एव प्रागुक्तं परामर्शविषयीभूताभावोऽसिद्धः । परामर्शविषयाश्रयपक्षतावच्छेदक(१) 'हेतुमत्त्व(२)-व्याप्ति(३)स्वरूपाः । यत्र च परामर्शविषयीभूतपक्षतावच्छेदकं नास्ति, स आश्रयासिद्धः । शेषौ पूर्वविवृत्तौ ज्ञेयौ । अत्राशङ्कते नन्विति - गगनारविन्दमत्यन्तमसद्भवति । तस्य पक्षतायां क्रियमाणायां तदप्रसिद्धत्वात्-तस्य च प्रसिद्धिर्नास्ति तदा आश्रयासिद्धिरपि वक्तुमशक्या ।।
- अयमर्थः - यस्य पदार्थस्य कुत्रापि प्रसिद्धिर्नास्ति तेनाश्रयाप्रसिद्ध्या आश्रयासिद्धिरूपोऽभावो वक्तुमशक्यः । प्रतियोगिप्रसिद्ध्यैवाभावप्रसिद्धिरिति । ननु तर्हि को दोषोऽयमित्यत आह - तत्रेति - अयमपार्थक एव दोषः-निरर्थकमेव तत्र दोष इत्यर्थः ।
सिद्धसाधनस्येति तथा च हेत्वाभासस्य ज्ञान प्रतिबन्धकम् । तत्तु स्वरूपसत् । सिद्धसाधनस्य तु ज्ञानं प्रतिबन्धकं न भवति । यतः साध्यनिश्चयस्यानुमितिप्रतिबन्धकत्वम् न तु साध्यनिश्चयत्वमिति । सिद्धसाधनस्य यद्यपि हेत्वाभासत्वं न सम्भवति तथापि प्राचीनमते आश्र यासिद्धे एव तदन्तर्भाव इति भावः । तथा चात्रापि संदिग्धसाध्यवत्त्वरूपपक्षतावच्छेदकाभावान्न पक्ष 'इत्यर्थः । नास्तीत्यर्थः । अन्यथा यथाश्रुते सद्धेतावपि कदाचित्पक्षेऽज्ञातत्वात् स्वरूपासिद्धत्वं स्यात् । स्वरूपासिद्धेऽव्याप्ति श्च स्यात् । कथम् ? यतः पक्षे यस्य वस्तुगत्या स्वरूपासिद्धस्य ज्ञानं जातं तस्य स्वरूपासिद्धत्वं न स्यात् । भवतीति चोक्तं यस्य ज्ञानं न जातमिति । ततोऽव्याप्तिरित्यन्यथाव्याख्यातम्।
भागासिद्धति पक्षतावच्छेदकावच्छिन्ने पक्षे हेतोरसत्त्वादयं भागासिद्धः "स्वरूपासिद्ध एवेति भावः । असमर्थमिति येन विशेषेण व्यावृत्तिर्जन्यते तदसमर्थमित्यर्थः । विशेष्यासमर्थं च यत्र पक्षे संपूर्णहेतोर्मध्ये विशेष्यभागो नास्तीत्यसमर्थत्वमित्यर्थः । तथा च यत्र पक्षे विशिष्टस्य हेतोर्विशेषणभागो नास्ति तत्रापि हेतो विशेषणाभावप्रयुक्तो विशिष्टाभावः । एवमन्योऽपीति भावः ।
अर्वाचीनमत इति - तथा च तत्र व्याप्तिरेव नास्ति । यतो हेतुतावच्छेदकावच्छिनसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं हेतुतावच्छेदकावच्छिन्ने । तथा च हेतुतावच्छेदकं प्रकृतानुमाने विशेषणासिद्धे द्रव्यत्वरूपं हेतुतावच्छेदकं नास्तीति व्याप्यत्वासिद्धः । यतो व्याप्तिहेतुतावच्छेदकघटिता जाता, तदभावत्वे व्याप्यत्वासिद्धोऽयमित्यर्थः।
व्याप्यत्वासिद्धस्य मूलकारेण कृतं लक्षणम्-यथा यत्र हेतौ व्याप्तिर्न विगम्यते इति यथाश्रुतमिदमशुद्धं भवति । सद्धेतावपि 'दशाविशेषे यदा व्याप्तिर्न गृहीता तदा तस्यापि व्याप्यत्वं १. B हेतुत्व. २. B तत्र. ३. B पूर्ववृत्तौ. ४. B अत्र शङ्कते. ५. B यत्र. ६. B om its इत्यर्थः. ७. B omits स्वरूपासिद्ध. ८. The words यत्र हेतौ are not found in त.भा.प्र. ९. B दशावशेषे. तर्क.-३३
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306