Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
________________
२६१
तर्कतरङ्गिणी चाक्षुषत्वादिति' पक्षधर्मताबलात् निरवयवद्रव्यत्वेन सिद्धिर्जातेति भावः ।
न दुर्लभस्येति तथा च यत्र परामर्शसत्त्वेऽप्यनुमितिः परस्परं प्रतिबन्धेन न जायते, तत्रैव प्रतिपक्षत्वमिति भावः ।
ननु सत्प्रतिपक्षस्थले परामर्शसत्त्वेन कथमनुमितिर्भवति, सामग्रयां सत्यामवश्यं कार्यसम्भवादिति चेत्, न । अपरपरामर्शाभावविशिष्टपरामर्शस्यैवानुमितिजनकत्वात् । तथा च प्रतिबन्धकाभावरूपा सामग्री तत्र नास्ति । अपरामर्शस्यैव तत्र प्रतिबन्धकसत्त्वात् न तु विरुद्धनिश्चयद्वयसामग्र्याः संशयजनकत्वकल्पनात् । अवश्यमत्र सत्प्रतिपक्षविरुद्धस्थलेविरुद्धनिश्चयद्वयसामग्र्याऽनुमितिरूप: संशय उत्पाद्य एव ।
अस्यार्थ:-विरुद्धा या परस्परं निश्चयद्वयस्य सामग्री सा च संशयजनिका भवति । अस्याश्च संशयजनकत्वं प्रत्यक्षसंशयस्थले क्लृप्तम् । यथा स्थाणुर्वा पुरुषो वा-इत्यत्र सन्देहपूर्वकाले विरुद्धनिश्चय द्वयस्य सामग्री वर्तते । यथापुरुषनिश्चयस्य सामग्री भवति पुरुषत्वज्ञानम्, विशेषणज्ञानं विशेष्येन्द्रियसन्निकर्षश्च विशेष्ये विशेषणस्यासंसर्गाग्रह इति पुरुषनिश्चायिका सामग्री । पुरुषविरुद्धस्थाणुनिश्चायिका सामग्री स्थाणुत्वविषया, पूर्ववत् । तथा च यदा एकदैवोभयनिश्चयस्य जनिका सामग्री मिलिता' तदा सन्देह उत्पद्यते । तथा च प्रकृतेऽपि विरुद्धनिश्चयद्वयसामग्र्याः सत्त्वेनानुमितिरूप: संशयो वारयितुमशक्यः । यथा-'शब्दोऽनित्यः, जातिमत्त्वे सति बहिरिन्द्रियग्राह्यत्वात्, 'घटवदिति' । 'शब्दो नित्यः, क्षेत्रज्ञात्मभिन्नत्वविभुविशेषगुणत्वात् ।' तथा च "प्रथमपरामर्शोअनित्यत्वव्याप्यजातिमत्त्वविशिष्टबहिरिन्द्रियग्राह्यत्ववानयमित्य-नित्यनिश्चायकसामग्री।
द्वितीयपरामर्शस्तु तद्विरुद्धनिश्चायिका सामग्री । यथा नित्यत्वव्याप्यक्षेत्रज्ञात्माभिन्नविभुविशेषगुणत्ववानयमिति नित्यत्वनिश्चायिका सामग्री । तथा च विरुद्धनिश्चयद्वयसामग्र्याः संशयजनिकायाः सत्त्वेनानुमितिरूपसंशयो भविष्यत्येव-शब्दो नित्योऽनित्यो वेत्येव ।।
न च विशेषदर्शनीयभावविशिष्टायाः विरुद्धनिश्चयद्वयसामग्र्याः संशयजनकत्वं तादृशमत्र नास्ति, अत्र विशेषदर्शनस्य परामर्शरूपस्य सत्त्वादिति वाच्यम् । एकमात्रकोटिरूपविशेषदर्शनस्यैव संशयाजनकत्वात् । तदभावस्य च संशयहेतुत्वं तस्य च प्रकृतेऽपि सत्त्वात् । अन्यस्थाणुत्वपुरुषत्वो भयव्याप्यदर्शने सति पुरोवर्तिनि पदार्थे तदुभयकोटि संशयानुपपत्तेस्तत्रापि 'पुरुषत्वव्याप्यकरादिमानयम्' 'स्थाणुत्वव्याप्यवक्रकोटरादिमानयमिति रूपस्य' विशेषदर्शनस्य सत्त्वात् । न च
१. मिलति. २. B omits अपि. ३. A omits घटवदिति and reads यदि. ४. B विभुविशिष्टविशेष.. ५. B त्वाव्याप्य. ६. Bomits वा and reads इत्येव ।. ७. B omits the reading between संशयानुप........एव.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 300 301 302 303 304 305 306