Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
________________
२६०
तर्कतरङ्गिणी प्रतिबन्धकत्वादित्युक्तम् । तत्त्वसाधारणानैकान्तिकेन सन्देह: कथं जन्यते ? तस्य साध्यसमानाधिकरणत्वेनैव साध्याभावसमानाधिकरणत्वाभावादिति । आशङ्कते-नन्विति ।
साध्यात्यन्ताभाववदिति - तथा च विपक्षाद् व्यावृत्तो भवति यो हेतुः, सपक्षादपि यो हेतुावृत्तो भवति स एवासाधारण इति । तेनैव सन्देहो जन्यते । तत्र साध्यस्यापि निश्चयः तेन कर्तुं न शक्यते । शङ्का(क्या) साध्याभावस्यापि निश्चयकर्तु ना तथा च साध्यसन्देह एव भविष्यतीति । असाधारणस्यापि सन्देहजनकत्वम् । ततोऽनैकान्तिकलक्षणं तत्राप्यस्तीति भावः ।
नियमाभाव एवेति यस्मिन् हेतौ व्याप्तिर्नास्ति स व्यभिचारो भवति । सा व्याप्तिश्वान्वयव्यतिरेकिणि तिष्ठति । यत्र च पक्षतातिरिक्तस्थले साध्यसाधनयोः सहचारो वर्ततेऽथवा तद्व्यतिरेकयोरपि सहचारो भवति । यत्र चैवमुभयसहचारो नास्ति स एव व्यभिचार इति भावः ।
एतदेव स्पष्टयति-नियमश्चेति साधारणानैकान्तिके सपक्षवृत्तित्वेन विपक्षाद् व्यावृत्तित्वं नास्ति । असाधारणे चोभयव्यावृत्त्या कृत्वा नियमाभावः । यदि सपक्षादपि यो व्यावृत्तस्तहि व्यभिचार एव स्पष्ट इत्यर्थः । बीजमाहेति-व्याप्तावव्यभिचारस्यैकभागत्वाद् गमकमिति भावः ।
एतदेवाह-अनुमिताविति । नियमाभाव इति - यथा विरुद्ध नियमाभावो वर्तते साध्याभावेनापि सह वर्तमानत्वात्। तथा च व्यभिचारेऽपि नियमाभावः साध्याभावेनापि सह हेतो वर्तमानत्वादित्यर्थः । (V) प्रकरणसमः ।
समबलेति तथा च समानबलं व्याप्तिपक्षतारूपं यस्य हेत्वन्तरस्यास्ति, एतादृशं यत्साध्यविरुद्धसाधकं लिङ्गान्तरं तिष्ठति यस्य सः प्रकरणसम इत्यर्थः ।
अधिकबलेति तथा च यत्रैकस्याधिकबलत्वं तत्रान्यस्य बाध एव । यस्य च न्यूनबलता तस्यैव बाधः । यथा पर्वतो वह्निमान् धूमात्, पर्वतो वह्यभाववान् पाषाणमयत्वादित्यत्राधिकबलता धूमे तिष्ठति । तत्रैव व्याप्तिपक्षतयोः सत्त्वात् । अत्र पाषाणत्वहेतौ व्याप्तिर्नास्तीति न्यूनबलतेति भावः । उपजीव्यमिति मूलम् - उपजीव्यं ततः साधकम् ।।
तत्सिद्धिरिति - परमाणोरनित्यत्वसिद्धिर्हि' न परमाणुसिद्धिव्यतिरेकेण भवति । येन च प्रमाणेन परमाणुः सिद्धस्तेन प्रमाणेन नित्यत्वेनैव सिद्धः । तथा च परमाणुसाधकमनुमानमनित्यसाधकानुमानस्योपजीव्यं भवति । उपजीव्ये च नित्यत्वमपि विषयो भवति । यथा 'परमाणुनित्यः द्रव्यत्वे सति निरवयवत्वात् । परमाणु-साधकं यथा-'त्रसरेणुः सावयवद्रव्यारब्धः, १. A omits सा. २. B परमाणोः नित्य..
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 299 300 301 302 303 304 305 306